पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी काचिद् विकल्पोदयशङ्का सम्भवति । अपितु स्वच्छतोत्कर्षशालितया प्रागुपन्यस्तानि सृष्ट्यादीन्येव चक्राण्यस्यां प्रतिबिम्बयुक्त्या परिस्फुरन्ती- त्यनया भङ्गया तत्तच्छक्तीनां विकल्पेनोपासनमपि किञ्चत् संगच्छते । यदुक्तं श्रीक्रमकेला – “अत एव ये निर्विमर्श तुर्यातीतमिच्छन्ति, ते निरुपदेशा एव" इति । षोडशाधिकेति, सप्तदशी कला | तत्र षोडश शक्तयो वि- श्वप्रतिबिम्बस्वभावाः । अन्त्या तु "विश्ववैचित्र्यचित्रस्य समभित्तितलोपमा " इति श्रीप्रत्यभिज्ञाप्रक्रियया तत्समष्टयात्मकतया तदधिष्ठानभूतेति षोड- शाधिकया विश्वं तदुत्तीर्णः परमेश्वरश्चे द्वितयमपि संगृह्यते । प्रतिबिम्बप्र क्रिया च स्फटिकमुकुरादिव्यतिरेकादलौकिकी काचिदङ्गीकर्तव्या । यतः स्फटिकादेः प्रतिबिम्बनं प्रति विम्बापेक्षावश्यम्भावः । अस्यास्तु समस्त- स्यापि प्रपञ्चस्य प्रतिबिम्बनं प्रति मित्तिभूतत्वादेतद्विपर्ययः । इदं चोप- यपि भविष्यति । एतचक्रानुप्रविष्टा चेयं षोडशाधिका, षोडशविकारप्रति- बिम्बतत्समष्टिरूपत्वात् प्रथमं सप्तदशस्फुरणप्रकारा भवन्ती पश्चात् प्र- काश विमर्शद्वय भेदोपश्लेषवशाद भैरव भैरवीविभागयुक्त्या चतुस्त्रिंशदंशत यानुभूयते । सा च विकासयुक्त्या पञ्चाशद्वर्णात्मक विश्वप्रसरपरामर्शपर- मार्थतया परिस्फुरन्ती संक्षेपमुद्रया पर्यालोच्यमाना, पीठनिकेतनं प्रति पञ्च वा वहतो गुरुभट्टारकाविभिन्नस्य परमेश्वरस्य यानि मूर्तिप्रकाशानन्दव- न्दचक्ररूपाणि सृष्ट्यादिपञ्चकात्मकानि च नव चक्राणि, तन्मयी श्रीन- वाक्षरी सम्पद्यते । ततोऽपि संक्षेपे सर्वस्यापि प्रपञ्चस्य पञ्चवाहपारिशे- व्यात् पञ्चपिण्डत्वेन, तस्य च वाग्भवे बीजे, तस्याप्यनुत्तरकलायाम्, अ- मुष्या अपि स्वात्मपरामर्शमात्रे पर्यवसानमिति । एषा च सिद्धान्तेषु तत्त- दधिकाराधिरोहक्रमतारतम्यादन्यथान्यथा व्यवहियते । यदाहुः - "येन येन स्वरूपेण भाव्यते तस्य तन्मयी । माहेश्वराणां शक्तिः सा सांख्यानां प्रकृतिः परा || महाराज्ञी च सौराणां तारा सुगतवन्दिनाम् । लोकायतिकमुख्यानां तदात्वा सा प्रकीर्तिता || १. ग. पाठः, 'रीयाती' ग. पाठ:. २. 'स्य', ३. 'क्रियया' क. पाठः, ५. 'ति' क. पाठ: ६. 'धिरोह' क. ग. पाठः, ४. 'ति'