परिमलोपेता ! कतरस्मिन्नर्थे देवतेति प्रत्येतुमुचितमिति । शिशवोऽप्येनमंशमसंशयमवबुध्य- न्ते – यचित्रादेः कार्यप्रपञ्चाचित्रकृदादिषु कर्तृषु 'स्वतन्त्रः कर्ते ति नया स्वातन्त्र्यलक्षणः कश्चिदुत्कर्षोऽस्तीति । अस्यार्थस्यात्यन्तस्पष्टतया निश्चित- स्यापि पक्षस्य निष्कर्षणानुपन्यासः । एतेन चेतनस्यैव मुख्यया वृत्त्या देवतात्वं, चेत्यानां तु तदावेशास्पदतया तदुपचारेणेत्युक्तं भवति । अत एव तान्यन्या देवत इत्युच्यन्ते । यदुक्तं श्रीगीतासु "येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय! यजन्त्य विधिपूर्वकम् ||" इति । देवतात्वेन प्रसाध्यमानं परमेश्वरं प्रति विश्ववैचित्र्यस्य चित्रप्राय- तया चित्रपदेनैवार्थोपपादनम् । तथोक्तं श्रीप्रत्यभिज्ञायां --- 'विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे' इति । तथा चोक्तं पदसंगतौ GANGEN "चिदाकाशमये स्वाने विश्वालेख्वविधायिने । सर्वाद्भुतोद्भवभुवे नमो विषमचक्षुषे ||" इति । तथा चाभियुक्तोक्तिः ON "जगचित्रं समालिख्य स्वात्मतूलिकयात्मनि । स्वयमेव तदालोक्य प्रीणाति परमेश्वरः ॥" इति । चित्रं न लिखति चित्रमित्याधुक्तया भया प्रमेयपदव्यामिव चि- त्तमन्तःकरणं न लिखति, चित्रमुक्तरूपं चित्तमन्तःकरणान्तरं वेति प्र- माणपथानुगुण्येनोप्य वगन्तव्यम् अर्थं च चित् चेतनः । तस्य भाव- चित्त्वं चैतन्यम् । तच्चित्त्वं चित्रं प्रमेयरूपं चित्तं, प्रमाणात्मकं चिंत्त्वं वा सजातीयं ज्ञप्तिस्वभावमर्थान्तरं न लिखति नोन्मीलयतीत्यादिप्रमारूपघ- मैकक्ष्यानुकूलोऽर्थः । इत्थमर्थत्रयेऽप्यवेक्ष्यमाणे सर्वथा चेतनस्यैव श्लाध्य- त्वकाष्ठाप्राप्तिरित्या अर्थचमत्कारानुभूत्यर्थतयापि पार्यन्तिकश्चित्रशब्दोऽनुस- न्धेयः । तदभिधेयस्य सर्वनाम्नैवोक्तत्वात् । लिखति श्रोत्पादन इवोपसं- १. 'ध्कर्षांप', २. 'ता उच्च', ३. ५. 'थ चि' क. पाठः. ६. ग. पाठः 'नाव' ग पाठः, 'कभ', ४. ७. 'त्वं स' क. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति