पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | यतः परा वाक् पश्यन्तीति पश्यन्त्या व्युत्पत्तिः । सूक्ष्मा तु शिखण्ड्यण्ड- रसन्यायादुक्त वाक्त्रयशवलीभावस्वभावा प्रत्यग्द्रष्टुः परमेश्वरस्योद्योगल- क्षणा वृत्तिरित्याख्यायते । परा वाक् पुनस्तस्यैव परमेश्वरस्य स्वरूपमनु- प्रविशन्ती परिस्फुरति । यदुक्तमस्मत्परमगुरुमिः श्रीमहजुविमर्शिन्यां - "मातृकां परवागात्मानाहतभट्टारकपरमशिवस्वरूपां पत्रिंशत्तत्त्वप्रसरण- हेतुभूतां संविदमित्यर्थः” इति । तस्य च वक्तीति कर्तृव्युत्पत्त्या वाक्त्वं, न पुनरुच्यत इति कर्मानुगुण्यात् । यदुक्तमस्मत्परमगुरुभिः श्रीसंवि- तस्तोत्रे. “त्वामुपासितगुरूत्तमाः परां वाचमाहुरविभक्तविश्वकाम् । स्वप्रकाशनविमर्शनात्मिकां वक्ति वागिति निरुक्तिमास्थितौः ॥" इति । तस्मादिच्छादिशक्तित्रितयविस्तारात्मा सर्वोऽपि वाग्विलास इत्यु- क्तं भवति । यथा योगिनीहृदये- इति । तथा च श्रीतन्त्रालोके IN "इच्छाशक्तिस्तथा सेयं पश्यन्तीवपुषा स्थिता । ज्ञानशक्तिस्त्रिधा प्रोक्ता मध्यमा वागुदीरिता || क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा।" क. पाठः, "ग्राक् पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः । परापरा परा देवी चरमा त्वपरात्मिका || इच्छादिशक्तित्रितयमिदमेव निगद्यते । एतत्प्राणित एवायं व्यवहारः प्रतायते || " इति । इच्छादिस्वभावैव च स्वात्मस्फुरत्तौ | तन्मयी च काचिदनुभूतिमैत्र- शब्दार्थ इति सर्वं संगच्छते । इच्छा पुनः पश्यन्तीत्युद्देश्योपादेययोर्व्य- त्यासेनार्थान्तरमपि द्योत्यते । १. 'रा', २. 'म' क. ख. पाठ:. ३. 'ताम्', "ता व '