पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । ww इति । कल्मषशब्देनैतदुन्मील्यते - यत् कालोऽपि पारमेश्वरी काचिच्छ- क्तिरेव, ययासौ स्वयं न व्यवच्छिद्यते । प्रत्युत विश्वं व्यवच्छिनत्तीत्येनं प्रति न कालस्य सङ्कोचकत्वलक्षणं कल्मषत्वम् | तं च कालं स्वात्मना क्रोडीकुर्वाणोऽयं नित्यं इत्याम्नायते । एवमस्य देशावच्छेदकत्वाद् व्याप- कत्वमप्यूह्यम् । इत्थं स्वात्मनः सर्वावारकत्वयुक्तथा सर्वकालमन्यानावृत- स्यापि प्राणशरीराद्युपश्लेषरूपं विशेषं दोषतयावस्थाप्य यो मोक्षस्य स्वप रामर्शाख्यचिदानन्दलाभरूपस्य प्रत्यूहः प्रतिकूलतर्करूपो विघ्नः कश्चिद- सम्भावितस्वभावोऽन्यै रुद्भाव्यते, स कः । न कश्चिदप्युपपद्येत, यदि यु- क्तितत्त्वमन्विष्येत । यदि तु जीवत्वं नामात्मनो विकल्पविशेषः, निर्वि- तु कल्पानुभूतिश्च मोक्षशब्दार्थ इतीत्यन्योन्याविरुद्धनेतेंहितयमित्युच्यते, तर्हि प्राणशरीरविश्लेषादप्येवमिति समः समाधिः । एतदुक्तं भवति 'चि- दानन्दलाभे देहादिषु वेद्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्थं जीवन्मु- क्तिरि'ति श्रीप्रत्यभिज्ञाहृदयमर्यादया भोगमोक्षसामरस्य साक्षात्कारलक्षणो जीवन्मोक्षः सर्वो ममायं विभव इति स्ववैश्वात्म्यानुसन्धानसन्धुक्षितैश्च - र्याणां प्रमातॄणां स्वभाव एव नत्वाहार्यः कश्चिदतिशयः । यदुक्तं मयैव संविदुल्लासे ww “विश्वं मूर्तिर्वैखरी नाम माला यस्यैश्वर्यं देशकालातिलधि । तद्भक्तानां स्वैरचारः सपर्या स्वेच्छा शास्त्रं स्वस्वभावश्च मोक्षः ।।" x इति । तत् किन्निवन्धनोऽयमेनं प्रति कालनियमनिर्बन्धाक्रोशक्लेशः । एतदेव ह्यस्य दर्शनान्तरेभ्यो वैशिष्ट्यं यद् भोगमोक्षद्वितयानुभूतिसामरस्यं नाम । यथा श्रीरत्नदेवे “भुक्तिर्वाप्यथ मुक्तिश्च नान्यत्रैकपदार्थतः । भुक्तिमुक्ती उमे देवि ! विशेषे परिकीर्तिते ॥” " इति । यथा च श्रीसिद्धामते. १. 'त्य आम्ना' क. ग. पाठः २. 'श्ले' ख. पाठः. ३. 'न्य' ख. ग. पाठ:. ४. 'व द्वित' क. पाठः, ५. 'घ' ग. पाठः, ६. 'त्व', ७. 'ते ॥ अ'क. पाउ: T