परिमलोपैता | "स्यादेकश्चिद्वपुर्ज्ञानस्सृत्य पोहनशक्तिमान् इति । यच्चोक्तं भगवद्गीतासु -- 'मत्तः स्मृतिर्ज्ञानमपोहनं च' इति । तत्र - 8 "स्वान्तः क्रोडीकृताशेषवेधवर्गो महेश्वरः । लोकयात्रामुपस्कर्तुं तत्तद्वैचित्र्यशालिनीम् ॥ नियतानेव निर्भिध कांविदर्थान् निजेच्छया । उन्मजयति यत् स्वस्माद् दृक्शक्तिः सा निगद्यते || बहिरौन्मुख्ययोगेऽपि स्वात्मचिपमुज्ज्वलम् | स्वच्छायामजहत् स्वच्छां भवेज्ज्ञानं नवं नवम् || अस्मिन् नवनवोल्लासे विद्युत् प्राये स्फुरत्यपि । यथामिलाप लोकेन व्यवहर्तुं न पायेंते ।। तत्संविदो पहिर्मुख्या यदन्तर्मुखतास्पदम् । चित्स्वरूपमवस्थासु कालभेदे मइत्यपि ॥ तस्य बाह्यपरामर्शप्रागल्भ्यं स्मृतिरुच्यते । अथापि तन्नवाभासं स्मृतं वा वस्तु वस्तुतः || विश्वमय्या स्वचिच्छक्त्या तादात्म्यं न परित्यजेत् । अतो बोधः स्मृतिश्च द्वौ बज्य स्यातां मद्देशितुः ॥ तद्वेद्यं वित्तितस्तस्या वित्तिर्वित्त्यन्तरादपि । वेद्यं च वेद्यादन्यस्माद् यथा विच्छेदमश्नुयात् ॥ तथा भगवतः काचित् स्वातन्त्र्यश्रीरपोहनम् । इत्याख्याता स्फुटं ज्ञानस्मृत्यपोहनशक्तयः ॥ तिसृभिः शक्तिभिराभिः शिवः कुविन्दो भवन् कुलालो वा । अनुभवति सुखं स्मरति च बहु च विकल्पयति विश्ववैचित्र्यम् ॥" इति ।। ५४ ।। नन्वस्तु स्थैर्यवत एवात्मनो जीवन्मुक्तिरूपः पुरुषार्थः । तस्य पुनरानन्दस्वभावत्वं विप्रतिपन्नम् । पाषाणमायताया मुत्तयवस्थायां कै- विदङ्गीकृतत्वादित्याशङ्कथाह - Somm
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति