परिमलोपता | नमिति दुःखानामपि ग्रहणनाद्यवस्थावत् सौख्यकक्ष्यानुप्रवेशात् सिद्ध- मस्यानन्दस्वभावत्वम् । यदुक्तं श्रीमस्तोत्रावल्यां 'दुःखान्यपि सुखायन्ते' इति । इत्थं चात्मनः स्वस्य यः काम इच्छौत्सुक्याशास्पृहादिपर्यायो भावः स्वभावत्वेन वर्तते, तमेवोन्सीलयितुमपत्याङ्गनाप्रभृतिरखिलो वेद्य- ग्रपञ्चः प्रीणनो भवतीति श्रु व्याख्यातः । तत्र तुरवधारणे । का- मायेति 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । एवमात्मायें पृथिवीं त्य- जेदि' त्यादौ व्यतिरेकोऽप्यूः प्रियार्थमिति प्रीत्यर्थस्य त्रियशब्देनोपन्या- सादात्मस्वभावभूतः प्रीतिरूप एवं स्वकर्तृकरणादिवैचित्र्येण बहुप्रकारो- अनुभूयते न पुनरेतद्वयतिरिक्तः कश्चित् श्रीणनादिः पदार्थ इत्यासूत्र्यते मुक्तोऽमुक्तो वेति । न खलु नैयायिकादिमर्यादया मुक्त्यवस्थायां पाषा- णप्रायत्वादात्मनो निरानन्दत्वं यतो मुक्त्यमावेऽपि तस्यवैस्वभावत्वम- परिहार्य किमुत तदनुभव इति चोतनार्थमेवमनादरेणोपन्यासः । किञ्च स्वस्यानन्दस्वरूपत्वावश्यम्भावे बन्धमोक्षादिविकल्पविक्षोभोऽत्र न कश्चि- दप्युपपद्यते, आनन्दस्य चित्त्व सत्त्वानुभूतिसामरस्यात्मकत्वात् । यदाहुः - “यत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दो विराजते । , 9 यत्रानन्दो भवेद्भावे तत्र चित्सत्तयोः स्थितिः ॥” इति । एनमेवानन्दमुन्मीलयितुमस्मदाम्नायेषु प्रथमद्वितीयादिद्रव्यस्वीका- रनिर्वन्धो निबध्यत इत्युपनिषत् ॥ ५५ ॥ अथैवमुपपादितमात्मस्वरूपस्फुरत्तापरामर्श प्रत्यतिस्पष्टनाणवादी- नुपायानुपदेश्यन् प्रथमं त्रीनप्येकयैव गाथयोद्घाटयति - जह णिअहिअडळळासं णिपणेउं णिचणिकळं इच्छा | मज्झतुडी खुडिअच्या अत्थं एताण सोमसुजाणं ॥ ५६ ।। यदि निजहदयोल्लासं निर्णेतुं नित्यनिष्कलमिच्छा। मध्यतुटिस्त्रुटितव्यास्त्रं यतोः सोमसूर्ययोः ॥ इति । निजं यत साक्षात्कारोल्लेखयोग्यं हृदयं व्याख्यातस्वभावं पाठः. ७. 'नमपि दुः' ग, बाठा. २. 'हरणाय' क. पाठः. ३. 'यइ' क. ४. 'न्मू' क. स. पाठ: ५. 'ता' ग. पाठः ६. 'द्दीपाय' क. पाठः. 'त्मस्फु' ग. पाठः, ८. 'घाणवा' क. पाट:.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति