पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । इति । कायसंस्थापनात्मकं करणं यथा “अम्ब ! केचिदमृताम्बुचिन्मयी लम्बिकाङ्कुरशिखावलम्बिनीम् । तालुमूलवलयीकृताप्रया जिया कबलयन्ति ते कलाम् ॥ " इति । चित्तोल्लेखखभायं ध्यानं यथा - "अनुकलममृतार्द्रादालवालान्तराला- ललितमुदयमाना पछवापाटलश्रीः । अशिथिलमवलम्ब्य स्थाणुमुद्धासमाना फलति कमपि भाव कोमला कापि वल्ली ॥ " इति । मूलाधाराद्यनुसन्धानाकारं स्थानकल्पनं यथा- “योनौ कनकपुजामं हृदि विचुच्छटोज्ज्वलम् | आज्ञायां चन्द्रसङ्काशं महस्तव महेश्वरि ! ॥' इति । एषु च किञ्चिदन्योन्यसाङ्कर्येऽपि तत्तत्प्राधान्यमालोचनीयमित्य लं प्रपञ्चेन । किञ्च सोम एवणीयज्ञेयकार्यस्वभावः प्रमेयोल्लासः । सूर्य इच्छाज्ञानक्रियात्मकं प्रमाणस्फुरणम् । अनयोरथं स्वां स्वा- मर्थक्रियां यतोः प्राप्नुवतोः सतोरिति भावलक्षणे सप्तमी। तथा भवतो- श्वानयोर्मम स्वात्मनः प्रमातृभूतस्य त्रुटि: सन्देहलक्षणो दोष उत्रुटि- तव्यः स्वात्मानं प्रत्युन्मिपन् संशयः संळेच इत्यर्थः । एतदुक्तं भव- ति - एपणीयताद्यनुप्राणनस्थूलोऽयं प्रपञ्चोल्लास इच्छादिशक्तित्र्यप्रवृत्तिं विना न क्वचिदपि सम्पद्यत इत्येपितृत्वादिरूपस्यात्मनः स्पष्टापरोक्षीकार- विपर्ययात्मानं संशयशङ्कातङ्कं तिरस्करोति । तत उक्तरूपस्वहृदयपरा- मर्शलाभ इति । शाक्तश्चायमुपायः, उच्चारादिव्यतिरेकेण स्वसंविद्विकल्पमा- त्राकारत्वात् । यदुक्तं तत्रैव “उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ||” इति । अथ च सोमोऽपानः सूर्यः प्राण इति प्रसिद्धं तयोर्द्वादशान्ताद् हृदयान्तं हृदयाद् द्वादशान्तान्तं च । अस्तमिति भावे निष्ठा । असनं १. 'एतेषु', २. 'शयातङ्क, ३. 'शेइ' ग. पाठः, TR