पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी पन्नाविप्रतिपन्नभेदवैधुर्येण सर्वेऽपि स्वपाण्डित्यानुकूलं परीक्षध्वमिति या वत् । इत्थमत्यन्तस्थूलस्याप्यस्य निष्कलत्वेऽभ्युपगम्यमाने षट्त्रिंशतमपि तत्त्वान्यतिक्रामन् परमेश्वरः कीदृशो भवतु निष्कलत्वोत्कर्षस्तस्य की- दृक् कियानिति चावधार्यतां, यदि दण्डापूपन्यायो व्युत्पन्न इति । अयं चाणवेषु ध्यानरूप उपायः । ततश्च स्थूलस्थूलव्युदासेन सूक्ष्मसूक्ष्मप्रेक्षा- यामत्यन्तसूक्ष्मत्वात्मविमर्शमृतास्वादसिद्धिरिति शाक्तोऽप्यत्रासूच्यते । १४८ यच्चोक्तमुपायविंशत्यां "स्थूलं स्थूलं परित्यज्य सूक्ष्म सूक्ष्मं समाश्रयेत् | पश्चात् सूक्ष्ममपि त्यक्त्वा केवलं चिन्मयो भवेत् ॥” इति । यच्चोक्तं श्रीविज्ञानभट्टारकेण- “भुवनाध्वादिरूपेण चिन्तयेत् क्रमशोऽखिलम् । स्थूलसूक्ष्मपरिस्थित्या यावदन्ते मनोलयः ॥" इति । उपलक्षणं चैतत् । तेन तत्र तत्र तत्त्वे निष्कलत्वालोचनायां सर्वां- कारनिष्कलं परमेश्वरं स्वरूपम संशय माविर्भवतीत्यनुसन्धेयम् । यदुक्तं मयैव श्रीपरास्तोत्रे - NOOR "पृथ्वी पूर्वमितो वनं तरुरतत्तत्रापि शाखा ततः www. पत्रं तत्र च पुष्पसत्र च फलं माधुर्यमस्मादिति । एकस्मादपि तारतम्यपदवीमुत्कर्षण पश्यतो विश्वस्मादपि कापि सिध्यति परे ! त्वामेव तां ब्रूमहे ॥" इति । एवमभिप्रेत्य खल्वीश्वरसिद्धिविमर्शिन्यामुक्तं . "गृहपतिरिव कुटु- स्ववर्गे नरपतिरिव गृहपतिवर्गे चक्रवतींव राजवर्गे लोकपाल इव चक्रव- तिवर्गे ब्रह्मादिरिव लोकपालवर्गे ब्रह्मादिवर्गेऽप्यधिष्ठाते" ति । एवञ्च "सूक्ष्मस्यैव विकासः स्थौल्यं स्थूलस्य मुकुलनं सौक्ष्म्यम्" इति स्थित्या वेदितृस्वभावत्वेन सूक्ष्माभिमतस्य परमेश्वरस्य स्फुरणप्रका- रोऽयं सर्वोऽपि स्थूलो वेद्योल्लासः । तस्य च सम्प्रतीकारयुक्त्या निष्कृष्टं १. 'महोदयः ॥', २. 'प', ३. 'य' क. पाठः. ख. पाठ.. ४. 'संपिण्डनका