पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | अयमेव हि मुख्यया वृत्त्या रस इत्युच्यते । यदुपचारेण माधुर्यगीतिशृङ्गा- रादयोऽप्येवं व्यपदिश्यन्ते । यत्तात्पर्येण च "स वा एष पुरुषोऽन्नरस- मयः" इत्युपनिषदुन्मिपति। अन्यथा रसशब्दप्रयोगस्य नैरर्थक्यप्रसङ्गात् । सुवेत्यासव इति च शब्दद्योपादानेन पाशवं शैवमिति स्वभावभेदः, वि- धिनिषेध इति चोदनावैचित्र्यं, लौकिकमलौकिकमिति व्यवहारतारतम्यं, गोप्यमगोप्यमिति भावविभागः, श्रद्धा जुगुप्सेत्यवस्थाविवेकः, आमुष्मि- कमैहिकमिति फलविशेषः, देवा असुरा इति देवताव्यवस्था चेति लोक- यात्रानुबन्धी सर्वोऽपि विरोध एतदास्वादनवन्यानां न किञ्चिदपि शङ्का- तकमरयितुमलमित्युन्मीत्यते । यतो ब्राह्मणचण्डालादिव्यवस्थापरित्या- गेन: “घृणा शङ्का भयं लजा जुगुप्सी चेति पश्चमी । कुलं जातिश्च शीलं चेयष्टौ पाशाः प्रकीर्तिताः ॥” इति स्थित्या वर्णाश्रमादिनैयत्यादिना परिस्फुरन् सर्वोऽपि पाशप्ररोहः स्वहृदय संवादसौन्दर्योत्तरं खत एवापहीयते । अत्र च ये सौत्रामण्यादि- दृष्टान्तदृष्ट्या प्रामाण्यं प्रसाधयन्ति, नूनं ते सिंहावलोकित केन विगलितमपि तज्जिमं ब्राह्मण्यमालोकयन्ति । अस्माकं पुनरुलहिताशेषसंशयशैल- शृङ्गाणां - “धन्याः केचिद्धनमिव विभोरागमै गोप्यमानां व्याकुर्वाणां जगदपरथा वीरविक्रान्तिविद्याम् । माधुर्यस्य प्रथमपदवी मङ्गलानां प्रतिष्ठां मान्त्रीं शक्ति मनसि महती देवतेत्याद्रियन्ते ।।" इति संविदुल्लासन्यायादेकशरणानां न कदाचिदत्राप्रामाण्यशङ्का प्रामाण्य- प्रसाधनापेक्षा वेत्यलमारुरुक्षुजनहृदयपरीक्षणव्याक्षेपेण । उक्तरूपमलौ- किकमर्थमभिप्रेत्य हि शिवधर्मादिषु - “आगमत्वेऽपि सामान्ये कः प्रद्वेषः शिवागमे । अनायासेन यत्रोक्ता मुक्तिरेकेन जन्मना ॥" १. 'प्सा चैव प' ग. पाठ: २. 'नू सस' क ख पाठः, ३. 'ती' क. पाठः