महार्थमञ्जरी १५४ 1 न्यामन्त्रणे लोट् || हन्तेत्यनेन बिम्बप्रतिबिम्बस्वभावावबोधवन्ध्यानन्य- सैद्धान्तिकान् प्रत्यनुकम्पा द्योत्यते । तेन च सर्वोऽयमा दर्शाननायुपलक्षि- तः स्तम्भकुम्भादिवेंद्यविस्तारो मालिन्य कक्ष्यानुप्रवेशितान्यपदार्थवैमरैये स्वै- च्छत्वोत्कर्षशालिनि स्वस्वभावाविभिन्न परमेश्वरात्मके महति मुकुरमण्डले तन्मयत्वपर्यायया प्रतिबिम्बनयुक्त्या परिस्फुरतीति तात्पर्यार्थः । उपलक्षणं चैतत् । तेन “शब्दो नभसि चानन्दस्पर्शधामनि सुन्दरः । स्पर्शोऽन्योऽपि दृढाघातशूलशीतादिकोद्भवः ।। परस्थः प्रतिबिम्बत्वात् स्वदेहोडूननाकरः । एवं प्राणान्तरे गन्धो रसो दन्तोदके स्फुर्टेंः ॥” इति श्रीतन्त्रालोकस्थित्या वियति प्रतिश्रुस्कारमा शब्द:, अङ्गनानुस्मृ त्यादावाधारचक्रे प्रत्यासन्न कर्कश स्पर्शानुसन्धानात् सौकुमार्यशालिनां शरीरेषु स्पर्शः, अन्यजनास्वाद्यमानतिन्त्रिण्याद्यनुसन्धानाद् दन्तोदके रसः, चन्दनादिधूपनावस्थायां प्राणान्तराले गन्धः, स्मरणोप्रेक्षादावात्ममनस्य- न्यजनानुभूयमानस्वभावो हर्षशोकादिर्भावश्चेति सार्वत्रिकमेतत् प्रतिबिम्ब- सम्पत्सौभाग्यम् । एवञ्च बाह्येषु दर्पणादिषु बिम्बसव्यपेक्षः प्रतिबिम्बो- पलम्भः। स्वात्मरूपे पुनरेतद्वैपरीत्यम्, अशेषस्यापि विश्ववैचित्र्यस्य प्रति- बिम्बतयानुभूयमानत्वात् । यथा श्रीतन्त्रालोके - 56. प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते । तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥ " इति । तथाच श्रीचिगगनचन्द्रिकायां- "वह्निवारिमुकुरादिषु स्फुटं स्वच्छवस्तुषु कुमारि! बिम्बता । मन्त्रित सह परिच्छदेन यत् तेन बिम्बमनवेक्षितं तव ॥" इति । अलौकिकी चेयं प्रतिबिम्बयुक्तिः शाम्भव एवोपाये पर्यवस्यति । यदाहुः - १. 'शीयु', २. 'ल्य' क. पाठ:. ३. 'स्वसत्त्वोत्क' ग. पाठः, ४. 'टम् ॥', ५. 'गा' क. पाठ:. ६. नासनप' ख. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति