परिमलोपेता | "मत्त एवोदितमिदं मय्येव प्रतिविम्बितम् । मदभिन्नं जगचेति त्रिधोपायस्तु शाम्भवः ||" इति । यथा श्रीतन्त्रवटधानिकायां १५५ “यथादर्श घटादीनां स्थितिर्मिश्रेतरात्मिका । मदात्मनि तथामीषां भावानां चित्ररूपिणी ॥" इति । एतदेव विश्वप्रतिबिम्बनक्षमत्वं परमेश्वरस्य तदतिशयितं स्वातन्त्र्य- मुच्यते यदन्तर्विद्भिरालोचनीयम् । विश्वस्य च प्रकाशस्वरूपे परमेश्वरे परिस्फुरतः प्रतिबिम्बप्रक्रियामेनामन्तरेण नान्या रीतिरौचित्य मनुभवति । नन्वस्ति विवर्तः परिणामादिर्वेति चेत् । न | विवर्तो नाम भ्रान्त्यपरपर्या- यमन्यस्यान्यत्रारोपणात्मकं ज्ञानमुच्यते । तथाच विश्वमात्मन्यात्मा वा विश्वस्मिन्नारोप्यत इत्यङ्गीकार्यम् । तत्र प्रथमे पक्षे यथा सर्षे दृष्टं सर्पत्वं रज्ज्वामारोप्यते, एवमन्यत्र कुत्र दृष्टमिति कृत्वा विश्वमात्मन्यारोप्येत । किञ्च नायं सर्प इतिवन्नेदं विश्वमित्यौत्तरकालिको वाधोऽप्यत्र नानुभू- यते । युक्त्या तत्र बावः प्रसाधयिष्यत इति चेत् । न । केयं युक्तिनीम | तक वा प्रमाणं वा स्यात् । नाद्यः । तस्याहार्यमूलतया प्रमाणानुग्राहक- त्वव्यतिरेकेण स्वातन्त्र्येणार्थप्रसावकतयानभ्युपगतत्वात् । न द्वितीयः । प्रमाणं च किं प्रत्यक्षमुतागमः आहोस्विदनुमानम् | न प्रथमः | प्रत्यक्षेण तद्वावस्य न केनचिदुपलभ्यमानत्वात् । प्रत्युत विश्वव्यवहारस्यार्थक्रिया- दिना निर्वाधं प्रवर्त्यमानत्वाच्च । न द्वितीयः। आगमे हि 'एकमेवाद्वितीयं ब्रह्म', 'नेह नानास्ति किञ्चन' इत्यादि । तस्य चायमर्थः ब्रह्मण स्तावदात्मस्वरूपपरमेश्वराविभिन्नस्य न केनचिदप्याकारेण भेदप्रथौचि- - - त्यमस्ति । इयत् तु चिन्त्यं - तत्र परिस्फुरतः प्रपञ्चस्य स्थितिः कीदृशीति । अत्रैवमाचक्ष्महे – इह वाग्व्यवहारानुकूलं प्रस्तावादिदन्तयाध्यवसीयमाने ब्रह्मणि गगनपवनादिः सर्वोऽयं प्रपश्चो नाना न भवति । भेदप्रथास्पदं न सम्पद्यते । किं तर्हि, उपपादितया तत्स्वातन्त्र्यमय्या प्रतिबिम्बदृष्ट्या १. 'पे' ग. पाठः २. 'र', ३. 'तीयभे' क. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति