महार्थमञ्जरी "तुर्यातीते भेद एकः सततोदितमित्ययम्" इति नीत्या नित्यवितातकसततोदितमित्येको भेद उपचर्यते । एवा च स्फुटः स्फुटास्फुटोऽस्फुट इत्यवभासभेदात् सर्वत्रानुस्यूत्यावस्थानं च | क्रमालक्षणान्याचक्षते । यदुक्तं श्रीतन्त्रालोके - "यस्य यद् यत् स्फुटं रूपं तज्जाग्रदिति मन्यताम् । यदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृशः || अस्फुटं तु यदाभाति सुषुप्तं तत् पुरोऽपि यत् । त्रयस्यास्यानुसन्धिस्तु यद्वशादुपजायते ॥ स्रक्सूत्रकल्पं तत् तुर्यं सर्वभेदेषु गृह्यताम् ।।” इति । तुर्यातीतं तु सर्वत्रैकरूप्यादव्याकुलं स्वात्मरूपपरभैरवस्वभावमनु- भूयते । यदुक्तं तत्रैव www “यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् । •तुर्यातीतं तु तत् प्राहुरित्थं सर्वत्र योजयेत् ॥” इति । तेन सुधूक्तं तुर्यस्योभयार्थप्रसाधनप्रागल्भ्यमस्तीति । अनेनैवाश- येनोपमानांशे चित्रामित्युक्तम् । ततश्च यथा माणिक्यमौक्तिकमहानील- मरतकाद्यनेकमणिगुम्फिता हारयष्टिररुणधवलश्यामलादि वर्णवैचित्र्यव्यति- करोत्तरतया क्वचित् कस्यचिदसाधारण्येऽपि व्यतिरिक्ताशेषवर्णसंसर्गावि- नाभावमनुभवन्त्यपरोक्षीक्रियते, एवं जागरादिपर्वपरम्परायामपि प्रतिपा- दितेन प्रकारेण परस्परानुवेधवैचित्र्यमनुसन्धीयत इत्यासूत्र्यते । एतदुक्तं भवति – चिच्छक्तिस्वरूपो महाप्रकाशनामा परमप्रमातृरूपः नित्योद्य- न्तृतापरिस्पन्दसारो भगवांस्तुरीयातीत भट्टारकः स्वानन्दात्मक प्रचयनामधे- यावच्छिन्नप्रमातृतारूपानौदासीन्यस्वभावेन तुरीयेण करणभूतेन प्रमेयं प्रमा- णं प्रमात्रौदासीन्यमिति पिण्डं पदं रूपमिति क्रिया ज्ञानमिच्छेत्याद्यशेष- त्रिकानुप्राणनमेतज्जाग्रत्स्वमसुपुतलक्षण मवस्थात्रयं प्रतिपादितालौकिकैश्व- र्यपरामर्शलक्षणां योगशक्तिमाक्रम्य स्वस्वातन्त्र्यस्फुरत्तापरिस्पन्दमात्रपर- १. 'ति-विच्छत्तिस्व', २. 'प्रलयना' क. पाठः ३. 'षक्रियानु' ख. पाठः
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति