परिमलोपेता । मार्थमनुसन्धत्त इति । यदुक्तं श्रीशिवसूत्रेषु -- 'त्रितयभोक्ता वीरेशः', 'त्रिपदाद्यनुप्राणनम्' इति च । यच्चोक्तं श्रीस्पन्दे- "जाग्रदादि विभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतो ॥" इति ।। ६१ ।। ननु व्यावर्णितमेतद्देशकालादिविकल्पवैधुर्योदुरं शुद्धसंवित्कलाकैव- ल्यस्वभावं योगिनः स्वाच्छन्द्यं स्वव्यतिरिक्ताशेष देहप्राणादिविकल्पोपले- षवैमुख्यशालिन एवास्योपपद्यते । तच्च न संभवति, यस्य कस्यचिद्विक- ल्पोपश्लेषस्य नित्यमवर्जनीयत्वादित्याशङ्कयाह उकळोआणन्दसुहासीहरसुव्वेषण हिअषण | अहिळसइ लोअजत्तातिन्तिणि चव्वणरसन्तरं जोई ||६२॥ उल्लोकानन्दसुधाशीथुरसोद्वेजितेन हृदयेन । अभिलपति लोकयात्रातित्रिणिचर्वणरमान्तरं योगी ॥ इति । योऽयमुल्लोकः ‘स एको ब्रह्मण आनन्दः' इत्युपनिषत्प्रकि- यया मनुष्यगन्धर्वाद्यवच्छिन्नप्रमातृहृदयानन्दातिशायी पूर्णाहम्भावभाव- नाचमत्कारैसारः स्वान्तर्विश्रान्तिसम्पत्सौन्दर्य मात्रस्वपरिस्पन्दः कश्चिदा- हादोत्कर्षः, स खल्वमृतासवस्वभावरसद्वयव्यतिकर कल्पनीयार्थक्रियाका- रितया प्रकाशविमर्शस्वभावस्वरूपमाधुर्यातिशयानुभवप्रावीण्याद् योगिनो हृदयमुद्वेजयति उत्कृष्यान्यत्र स्वप्रतियोगिनि पदार्थ प्रवर्तयति । तादृशा चायं हृदयेनोपकरणभूतेन लोकस्य देहाक्षभुवनादेः या यात्रा प्रवाहनित्या प्रवृत्तिः, सा चिश्चाफलास्वादवत् प्रागनुभूतमाधुर्योत्कर्षापेक्षया रसान्त- रमम्लादिसादृश्यादन्यो रसः सम्पद्यते । यत्रोद्वेजितहृदयस्य योगिन इच्छाशक्तिरुज्जृम्भते । योगीच्छायाश्च फलप्राप्तिपर्यन्तत्वमविप्रतिपन्नम् । यदुक्तं श्रीशिवसूत्रेषु – 'चित्तस्थितिवत् शरीरकरणवाद्येष्वि'ति । क्षीर- शर्कराद्यत्यन्तमधुरोपैयोगोद्वेजितचेतसां च पुंसां तिन्त्रिण्याद्यम्लपदार्थान्त- w 1. 'तः क. ख. पाठः. २. 'रः स्या', ३. 'वमा', ४. 'भा' क., 'भावनप्रा' ख. पाठ: ५. 'पदंशयो' क. पाठ:
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति