परिमलोपेता । भङ्गशङ्कावकाशः । यस्मादिदन्तानुपलब्धावहम्भावस्य राज्यभ्रष्टस्येव राज्ञः, तद्वदहमंशानुपरक्ताविद मंशस्य भागस्याराजकस्येव राज्यस्य न किञ्चिच- मत्कारौचित्यम् | यदुक्तं शम्भ्वैक्यदीपिकायाम् – 'अन्तर्गता हि प्रका- शव्याप्तिरिदमिति विश्राम्यति वहिर्गता चाहमिति, एतद्वयं सर्वजनप्रसि- द्धमनपहवनीयम्' इति ॥ ६२ ॥ नन्विदन्ताया मायीयत्वावश्यम्भावादुद्भावितोऽयमहन्तेदन्तयोर- विशेषः कथं सङ्गच्छतामित्याशङ्कयाह जाहिं गहइ जोई कळणपणाळीहि विसअसोक्खाई | •णिअहिअउव्वमरीहि फुरणमअं ताहि कुणइ लोकं || याभिगृहाति योगी करणप्रणालीभिर्विषयसौख्यानि । निजहृदयोद्वमनशीलाभिः स्फुरणमयं ताभिः करोति त्रैलोक्यम् || इति । प्रकृत्या परमप्रमातृपदाधिरूढोऽपि स्वेच्छामात्रेणोपाधिना परिमितप्रमातृभावमवतरन् अत एव प्रकाशानन्दसामरस्यामृतमहाहदाय- मानो योगी याभिरन्तर्बहिरिन्द्रियशक्तिलक्षणाभिः प्रवाहोपायप्रक्रियाभिः शब्दस्पर्शादिविषयवपूंषि सौख्यानि गृह्णाति आत्मसात्करोति, ताभिरेव पा- नीयपानोपक्रमप्रक्षरितवमथुशी करस्तिम्यतस्तम्बेरमहस्त पुष्करन्यायाद् व्या ख्यातरूपमात्महृदयमनवरतमुद्वमैन्तीभिः प्रमातृप्रमाणप्रमेयपरमार्थमेतत् त्रैलोक्यं स्वैहृदयलक्षणस्फुरत्तात्मकं विधत्ते । अयं भावः -योगी ह्या- त्मनः परप्रमातृभावं परिमितप्रमातृतायामन्तःकरणेष्वेतानि बहिरिन्द्रि- येषु तानि च चैत्यभूमाबुद्वमन्ननयैव नाड्या प्रमात्रादित्रिकमयमखिलमपि लोकवैचित्र्यं स्वात्मसंविदाश्यानतास्वभावमाधत्ते । यदुक्तं श्रीचिद्भगन- चन्द्रिकायां INDUKCI "मातृमेयमितिसाधनात्मिका त्वत्कृतोन्मिपति या विकल्पधीः । त्वत्स्वरूपमकलङ्कितं तथा कैस्य देवि! विदुषो न मुक्तता ॥ 99 'यत्यागाव' क. पाठः, २. 'ह' क. ख. पाठ: ३. 'स्वस्वह', १. ४. 'त' क. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति