महार्थमझरी मानाधिकरण्यरूपं सौभाग्यमन्तः करणहरणप्रामीण्यलक्षणं लाग्यवाति- शयं लभते स्वपरिस्पन्दात्मकतया प्राप्नोति । अयं भावः -- श्रीमद्देशिक- - नाथकटाक्षपातसमसमयमेव पुंसां स्वहृदयसंवादसौन्दर्यशालिनो जीवन्मो- क्षलक्षणस्य पुरुषार्थस्योपलम्भ इन न काचिद विप्रतिपत्तिः । यदुक्तं श्री त्रिंशिकाशास्त्रे - 'सद्यः कौकिकसिद्धिद', 'सद्यो योगविमोक्षदम्', इति च । यथोक्तमाचार्यांभिनवगुप्तपादै: - 'एतद् यो लभते स लाभ- काल एव न पशुः' इति । तादृशस्यैव च भावस्यान्तः परामर्श: किया- समभिहारे तत्तदणिमाद्यैश्वर्यस्वभावो बहिर्विभूतिपरिस्पन्दोऽनुभूयते । त दुक्तं तत्रैव "एतदभ्यस्यतः सिद्धिः सर्वज्ञत्वमवाप्यते ।" इति । यद् व्याख्यातमभिनवगुप्तपादै: – 'अभ्यासेन विनापि जीवन्मु- - क्तता परा कौळिकी सिद्धिरि'ति । क्षणमात्रेति । क्षणिक एव हि परा- मर्शः 'सकृज् ज्ञाते सुवर्णे मा भावनाकरणं व्रजेतू' इति श्रीशिवदृष्टिदृष्ट्या बहिष्ठेष्वपि पदार्थेग्वसंशयमर्थक्रियामर्थं प्रयोजयति । किमुत स्वस्वभावात्मनि परमेश्वराख्ये भावे इत्यर्थः । यदुक्तं तत्रैव "एकवारं प्रमाणेन शाखाद्वा गुरुवाक्यतः । ज्ञाते शिवत्वे तत्रस्थप्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं कापि भावनयापि वा ।" इति । अत्र पृथगनेकार्थशालिनां सर्वशब्दानामर्थप्रपञ्चप्रस्तावो विस्तारा- येत्यलं ग्रन्थगौरवेण । यत् संभूयसर्वसाम्यस्वभावा महार्थसिद्धान्तोपनि- षदुन्मील्यते । यदुक्तमागमे ROTICOSIAL "समता सर्वभावानां वृत्तीनां चैव सर्वशः । समता सर्वदृष्टीनां द्रव्याणां चैव सर्वशः || भूमिकानां च सर्वासामोवल्लीनां च सर्वशः । समता सर्वदेवानां वर्णानां चैव सर्वशः ॥” इति ॥ ६६ ॥ १. 'एवकार' ख. पाठः, २. wwwwwwa 'स्थः' ख. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति