परिमलोपेता । दयोऽपि भेदाः स्वयमूहनीयाः । सर्वथा देशिकनाथचरणशुश्रूषामात्रानु- प्राणनमेतत् कौळिकसिद्धान्तानुसन्धानमिति रहस्यम् । यदुक्तं मयैव श्री- पादुकोदये ---- "गुरुमत्तैव नः शास्त्रे परमं फलमुच्यते" इति । यच्चोक्तं श्रीमहाभारते - "ऋतस्य दातारमनुत्तरस्य निधिं निधीनां चतुरन्वयानाम् । ये नाद्रियन्ते गुरुमचनीयं पापाल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥” इति ॥ ६७ ॥ ननु स्रोतांसि हि चत्वारि परमेश्वरप्रणीतान्यन्तर्विद्भिराद्रियन्ते । अत्र त्वनुत्तरानीयानुशीलनं प्राचुर्यात् पुरुषार्थोपायतया प्रत्यपादि । तद- त्राप्रयोजकत्वमन्यत्रानाश्थासशङ्का वा प्रसज्येत । येनोभयत्राप्यनौचित्य- मित्याशङ्कयाह - अञ्चउ अण्णा विज्जा चउसोत्ताणं वि साअराणं व । एणं चिअ अमअमअं मन्थइ मन्थाणभेरवो देवो ॥ ३८ ॥ आस्तामन्या विद्या चतुःस्रोतसामपि सागराणामिव । एनमेवामृतमयं मध्नाति मन्थान भैरवो देवः ।। इति । परमेश्वरो हि सर्वानुग्राहकतया “पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् । यथा तथैव शास्त्राणां कुळमन्तः प्रतिष्ठितम् ॥” इति श्रीतन्त्रालोकस्थित्या श्रुतिस्मृत्यादिषु बाह्यविद्यासु कौळिकैवावगा- ह्येति, श्रीमत्स्रोतश्चतुष्टये चैनमेवार्थमुपसन्नं जनमनुभावयितुमुद्भावयती- त्यस्मैन्निश्चयः । यदाशयेन “सांख्यं योगं पश्चरात्रं वेदांश्चैव न निन्दयेत्” इत्यागमेष्वाख्यायते । तत्र १. 'विधिनिंधी', ९. 'स्ते प्रतिष्ठापनीयाः', ३. 'म्नायशी' क. पाठः, ४. 'का', ५. 'स्मि' क. ख. पाठः. Y
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति