१७८ महार्थमञ्जरी "न्यायागमादि मंदुपेक्षितमप्यसारं स्वीकृत्य केचिदधिकं मदमुद्रर्हन्ति । निर्माल्यमुज्झितमपि प्रभुणा पृथिव्यां चेट्यो हि मूर्ध्नि विनिवेश्य परिभ्रमन्ति ॥” इति नीत्या बाह्यत्वेनावभासमानत्वादन्यतयाभिमता सांख्ययोगादिस्व- भावा विद्या तावदास्ताम् अनुत्थानमेवास्या भवतु । विद्येति जाता- वेकवचनम् | अलमत्र श्रुतिस्मृत्यादीनां बाह्यविद्यानां महार्थोपायतया प्र त्यायनप्रागल्भ्येनेति यावत् । तच्च 'सण्णाविसेसणिण्णअ' (लो० २.) इत्यत्र विस्तीर्य पर्यालोचितम् । यानि पुनरलौकिकानि वैतत्यगाम्भीर्या- क्षोम्यत्वादिसाधर्म्येण समुद्रस्थानीयानि चत्वारि पूर्वदक्षिणादिक्रमेण परमे- • श्वरमुखचतुष्टयप्रणीतानि स्रोतांसि स्वच्छस्वादुशीतलाभ्यन्तराहादरसोत्त- रतया स्वात्मसंविवाहरूपा आज्ञाः, तेषां संबन्धिनमन्तस्तात्पर्यकक्ष्या- रूढतया गूढस्वभावमेन मेवामृतमयं स्वसंविदात्मना केनचिदाहादेन प्रकृ तमर्थातिशयं मन्थान भैरवात्मा देवो मनाति । तत्तत्त्रोतःप्रतिपाद्यार्था- न्तरानादरोत्तरं स्वात्मशक्त्या पृथक् पिण्डीकृत्योत्थापयति । एतदुक्तं भ बति – बाह्यविद्यासु नृत्तगीतप्रभृतयोऽपि कलाः स्वस्फुरत्तानुसन्धानाव- स्थायां सहृदयहृदयसंविदैकाग्यलक्षणस्य चमत्कारोत्कर्षस्य प्रयोजकतया पर्यन्ततो महान्तमेवार्थमुन्मीलयन्ति । किमुत वेदशास्त्रेतिहासपुराणादयः । केवलं तेषां पारम्पर्यादुपायभूतत्वमेव भेद इत्यत्र वन्थ्यो वाकोवाक्योप- न्यासप्रबन्धः । अलौकिके तु स्रोतश्चतुष्टये ज्ञानयोगक्रियाचर्या प्राधान्येन पृथक् पृथगुपपादितार्थान्तरप्रपञ्चेऽप्यन्ततो गत्वा प्राप्यभूमिकात्वेनायमे- वार्थोऽवस्थाप्यते । यदुक्तमागमे – 'चतुराज्ञाकोशभूताम्' इति । यच व्याख्यातमस्मत्परमगुरुभिः श्रीमदृजुविमर्शिन्यां - 'चतुष्पीठाभिष्ठातृम हासंविदालम्बनेन प्रवृत्तचतुःस्रोतोरूपा महापदवी चतुराज्ञा । तस्याः कोश- भूता महाधिष्ठात्री शेवधिस्ताम्' इति । यच्चोक्तं श्रीक्रमकेलौ – 'वाम . दक्षिणतन्त्रादिष्वप्येतन्मयमेव सर्वं निर्वहतीति मन्तव्यम्' इति । एवञ्च --- - www १. 'व' क. पाठः 'कृत्यास्थाप' क. पाठः ६. उपस्था' ग. पाठः, २. 'म', ३० 'पि' ग. पाठः, ४. 'प्रकाशरू', ५. 'हासादय:' ख. ग. पाठः. ७. 'के स्रो', ८. 'वार्थ
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति