१९८ महार्थमञ्जरी आलोक्य च स तां सिद्धां कुर्वन्नासन्नमासनम् । उपाहरदुदारश्रीः पूजोपकरणं क्रमात् || दक्षिणां च यथाशक्ति दातुं दूत समांदिशत् । क्रुद्धेव योगिनी सा च किमेभिरिति निःस्पृहा ॥ महाराष्ट्रभुवं भाषां प्रयुखाना स्मितोत्तरम् । सप्तसंख्योचितां मुद्रां बनती हस्तपलवे || अलमथैरियं कन्था वसोधरां हि वर्षति । प्रदीयतामियं मुद्रा फलं च प्रतिपाद्यताम् || इत्यमाभाषमाणैव सकपालेन पाणिना | स्पृशन्ती मस्तकं तस्य निश्शङ्कं सा तिरोदवे || अथ तन्महदाश्चर्यमनुवानो महामनाः । आरचय्यार्चनाशेषमशेषामनयन्निशाम् || प्रातगुरुकुलं गत्वा प्रणम्य चरणौ गुरोः । रात्रिवृत्तान्तमाचख्यौ प्राञ्जलिः प्रश्रितैः पदैः ॥ देशिकेन्द्रोऽपि संचिन्त्य निश्चित्यार्थ च तत्क्षणम् । पुष्योत्सव इति प्रीतः शिष्यं श्रीमानभाषत || अलमर्थप्रपञ्चेन पिण्डितोऽर्थः प्रकाश्यते । अलमर्थैरिति प्राह यदियं सिद्धयोगिनी ॥ यच्च सप्तोचितां संख्यां कुर्वाणा करकुमले । सफलीक्रियतामेषा भावज्ञेनेत्यभाषत || तदार्थी सृष्टिमुल्लङ्घय शाब्दीं सा काञ्चिदिच्छति । येन मन्त्रात्मकैः शब्दैः परमेश्वर्युपास्यते ।। सप्तकोटीश्वरी देवी तया नूनमुपास्यते । अन्यथा तादृशीमेव मुद्रां न प्रतिपादयेत् || तत् त्वयात्र विधातव्या स्फीतसारस्वतश्रिया । सूत्राणां सप्ततिस्तन्त्रे महार्थे मन्त्रगर्भिणी | १. 'वि', २. 'संख्यादिकां मु' रू. पाठ:. ३. 'दं' क. ख. पाठ:. ४. ब. ग. पाठ:●
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति