परिमलोपेत्ता । सद्यस्त्वद्वदनात् तस्मात् पादुकोदयशोधितात् । पुरातनागमप्रख्यो ग्रन्थः प्रख्यायतां महान् ॥ किन्च भाषा तदीयैव माधुर्यामृतवर्पिणी । औचित्य पोषयत्यत्र महामन्त्रानुसारिणी ॥ इत्याज्ञां देशिकेन्द्रस्य दयालोर्मूर्ध्नि धारयन् । महार्थमञ्जरीं नाम संविदर्पणमण्डलम् || तन्त्रं दिनैः कतिपयैः प्रबबन्ध स्वतन्त्रधीः । कार्यारम्भो हि महतामविलम्बेन सिध्यति ॥ तच तत्त्वविदं लोके वेदशास्त्रेकलास्वपि । महार्थसिन्धुमन्थानं श्रावयामास देशिकम् || स्वयमेव च तां विद्यां स्वविमर्शकुतूहलात् । शिष्याणामपि निर्बन्धाद् व्याचचक्षे विचक्षणः ॥ यथा हि पुष्पमञ्जर्यां ग्राह्यः परिमलो भवेत् । . तद्वदस्यामपि ग्राह्या व्याख्या परिमलाह्वया || अस्यामर्थस्थितिः सैव या सर्वत्र कुळागमे । किन्तु शब्दस्य शय्यान्या नात्यन्तं सा विभिद्यते ।। शुद्धो जन्मस्वनेकेषु यः कश्चिज्जायते कृती । एनामुपदिशन्त्यस्मै योगिनो भाग्यशालिने || अनयैव शिवो विष्णुर्ब्रह्मान्येऽपि महौजसः । अन्तर्विमृष्टया शुद्धाः स्वाधिकारेषु जाग्रति ॥ इमामेव विमृश्यान्तर्वामदेवशुकादयः । अध्यतिष्ठन् परां काष्ठां प्रतिष्ठां सर्वसंपदाम् ।। इमामेव च सङ्ग्रामे बन्धुहत्यापराङ्मुखम् । मुकुन्दो बोधयामास स्यन्दनस्थं धनञ्जयम् || 1. 'किंचिद् भा', २. 'स्त्रे' क. ख. पाठ:. ३. 'न्यो' क. पाठ, १९९
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति