परिमलोपेता ! इति स्थित्या साक्षात् स्वात्मपरामर्शोपायत्वं न सम्भवति । यथा श्रीत. न्त्रालोके - “येऽप्यसाक्षादुपायेन तद्रूपं प्रविविन्दते । नूनं ते सूर्यसंवित्त्यै खद्योतादीच्छवो जडाः ॥” इति । यथा च श्रीकुलकमले - “शाक्तेन तेजसा शून्यं ये मार्ग पर्युपासते । ते वह्निरहिते कुण्डे स्थाल्या होमं प्रकुर्वते ।।" इति । तत्र च तारतम्यं किञ्चिदालोचनीयम् । यदुक्तं - "नरर्षिदेवगुहिणविष्णुरुद्रायुदीरितम् । उत्तरोत्तरवैशिष्टयात् पूर्वपूर्वप्रबाधकम् ॥” इति । स च महेश्वरानन्दो महार्थमञ्जरीं ग्रश्नाति । विश्वं तदुत्तरोभयस्प- ,न्दतया पूर्णाहम्भावस्वभावस्यार्थस्य अर्थ्यते इति व्युत्पत्त्या सर्व (द्रा- व्य प्रार्थ्य) स्य वस्तुनः शिवशक्त्यादिभेदप्रथाप्ररोहेऽपि पारमार्थिकाद्वैत- प्रथासतत्त्वां स्फुरत्तामुपदर्शयति । ग्रन्थसन्दर्भद्वारा लोकमनुभावयती- त्यर्थः । मञ्जर्यपि हि पृथकपुष्पभेदप्रतिभासेऽप्येकाकारानुभूयते । ग्र- थनं च पुष्पादेरुपेयस्यानायासग्रहणोपायतया प्रसिद्धम् । सा च सुरभिः, सर्वामिलषणीयप्रकाशरूप सौरभास्पदत्वात् । अनेन च विश्वस्य भोग्यत- यावस्थापनाद् वक्ष्यमाणस्य विमर्शोपायस्यौचित्यमून्मील्यते । यतो निर्भय- भोगमित्येतत्तन्त्रमाम्नायते । यदुक्तं श्रीसिद्धामते – “अर्थषट्कं च दीक्षा च शिवशास्त्रमिति स्मृतम् । दीक्षाध्वा निर्भयो भोगशास्त्रे भैरवसंज्ञके ॥” इति । इमामिति । प्राकट्योत्कर्षादनपहवनीयामतिसुलभास्वादामनुन्मी- लितपूर्वा चेत्यर्थः । यदुक्तं श्रीप्रत्यभिज्ञायाम्- “इति प्रकटितो मया सुघट एष मार्गों नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा" इति । अत्रे च योऽयं महार्थमञ्जरीपर्यायो विश्ववैचित्र्यविलासः, स एव चै वक्ष्यमाणस्य प्रत्यभिज्ञापरपर्यायस्य विमर्शस्योपायतया तन्त्रप्रतिपाद्योऽर्थः । १. 'वो इति', २. 'त्र यो' ग. पाठः. ३. ‘च कष्यमा' क. पाठ.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति