पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इति । अत्र योऽयं महाप्रकाशः मानतास्वभावमात्रपारिशेष्यात् स्वरूपनिष्कर्षे क्रियमाणे तत्तत्प्रेमातृप्रकाशावेशाधीनप्रकाश- "तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते । ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् ॥ नहि ज्ञानादृते भावाः केनचिद् विषयीकृताः । ज्ञानं तदात्मतां यातमेतस्मादवसीयते ॥" P इति श्रीदेविकाक्रमस्थित्या प्रकाशैकस्वभावः षट्त्रिंशत्तत्त्वसंपिण्डनात्मा प्रत्येकतत्त्वपर्यांलोचनेऽप्यनन्तप्रकारायमाणो विश्वविलासः, सः, वर्षताम् उपर्युपरि स्वस्फुरत्तामनुभवतु । अयमेव महानुपायो वक्ष्यमाणस्य विम र्शस्येति यावत् । ननु शून्यतामात्रस्वभावेन मिथ्यात्वमात्रानुप्राणित- व्यवहारेण वा विश्ववैचित्र्येणोपायमूतेन परमार्थभूतस्वात्मरूपविमर्श- लाभ इत्येतदनौचित्योत्कर्षकाष्ठाप्राप्तिरिति माध्यमिकानिर्वचनीयवादमर्या- दामाशङ्कयाह – निश्छलोद्योत इति । स्फुटप्रकाशात्मनि प्रपञ्चोद्योते न कस्यचिद् मिथ्यात्वोपपाइँकादेश्छलस्यावकाश इत्यर्थः । अस्त्वेवं, त- थाप्यवघातस्वेदादिवदन्यथासिद्धसान्निध्येन लोकव्यवहारेण कथमात्म- विमर्शोत्पत्तिरित्याशङ्कयाह — विमर्शविच्छुरितेति । न खलु स्वसत्तामा- त्रेण विश्वस्यात्मविमर्श प्रत्युपायत्वम्, अपितु तथा तथा विमृश्य- मानावस्थायामेव । तत्र च विश्वस्वरूपस्येव तन्मिथ्यात्वादेस्तद्विपर्य- यस्य च विम्रष्टव्यत्वोद्भावनाय निश्छलोद्योत इत्यस्य विमर्शविच्छुरिते- त्यनेन सह्रैकपद्यम् । ननु यदि हि विश्वव्यवहारस्य किन्चिन्चैयत्यं तदु- पपद्येताषि नाम तस्योपायत्वम् । तच्च न सम्भवति । अद्यापि सिद्धान्ति- भिव्यगुणादयः षडिति, प्रमाणप्रमेयादयः षोडशेति, रूपवेदनादयः प- ञ्चेति च पृथक् पृथग् विकल्प्यमानत्वादित्याशङ्कयाह – संज्ञाविशेषेत्यादि । यत्र विश्वविलासात्मन्यर्थे काणादीयाक्षपादीय प्रभृतीनि शास्त्राणि तत्तत्परि- भाषानुगुण्येन संज्ञालक्षणा ये व्यपदेशविशेषास्तन्मात्रोपक्षीणव्यापाराणि, १. 'प्रका' ग. पाठ.. २. 'र्षताका' क. पाठ: ३. 'दनादे' ग. पाठः ४ 'देरेतद्वि' क. पाठः,