परिमलोपेता । कश्चिदुच्येत, स एव स्वभावतो न स्यादित्यर्थः । अयं भावः -विषये- न्द्रियादेवैद्य वैचित्र्यस्य गोपालजलहार्यादेः प्रमातृवर्गस्य च ८ “समलो विमलो वापि व्यवहारोऽनुभूयते” www इति श्रीप्रत्यभिज्ञाप्रक्रियया 'ग्रामं गच्छति', 'सन्ध्यामुपास्ते' इत्यादिलौकि- कशास्त्रीयव्यवहारस्वभावं ज्ञानक्रियायुगलमेव साक्षात् पारम्पर्येण वानु- प्राणनमवलोक्यते । यथा श्रीप्रत्यभिज्ञायाम् - “तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥” इति । ते च ज्ञानक्रिये ममेत्यहमिति वाहम्भावव्यतिरेके कुत्रापि नोपप- येते इति सर्वाहम्भावस्वभावं परमेश्वरं प्रत्यस्फुटत्वशङ्काया न कश्चिदव- काश इति ॥ ४ ॥ एवं सामान्यतः प्रमाणानामनुपयोगमात्मन्युपपाद्य विशेषतोऽप्युप- पादयन्त्रागमे कञ्चिदनुग्रहं दर्शयति - ओच्छिण्णं पच्चक्खं ओच्छिण्णं तम्मुहं च अणुमाणं । आअमदीवाळोओ तस्स पयासेइ कि पि आहप्पं ।। ५ ।। अवच्छिन्नं प्रत्यक्षमवच्छिन्नं तन्मुखं चानुमानम् । आगमदीपालोकस्तस्य प्रकाशयति किमपि माहात्म्यम् || इति । ग्राह्यार्थसन्निकर्ष एवं प्रत्यक्षस्य प्रामाण्यमित्यत्यन्तमेतत् सङ्कुचितम् । अनुमानं च व्याप्त्युपलम्भसापेक्षत्वाद् व्याप्त्युपलम्भस्य च प्रत्यक्षमूलत्वादवच्छिन्नमेव । अर्थापत्त्यादेरत्रान्तर्भावो वैशेषिकादिभि- रभ्युपगतः । अनन्तर्भावे वा तस्य संकोचः कल्पका थुपलम्भविकल्पात् स्वयमुपकल्पनीयः । एवं चावच्छिन्नानां प्रमाणानामनवच्छिन्ने स्वा- त्मनि प्रवृत्तिरिति महतीमनौचित्यकक्ष्यामवतरतीति प्रागप्युक्तम् । आगमस्तु यद्याप्तमात्रवाक्यत्वात् प्रामाण्यमर्हति, तर्हि तस्याप्तिः कीद्यगति चिन्तायामन्यस्मादाप्तात्, तस्याप्यन्यस्मादिति मूलक्षयका-
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति