महार्थमञ्जरी “अप्रबुद्धमतीनां हि एता बालविभीषिकाः । मातृमोदकवत् सर्वं प्रवृत्त्यर्थमुदाहृतम् ||" इति श्रीविज्ञान भैरवांशो व्याख्यातः ॥ ७ ॥ , ननु विधिनिषेधादिना हि लोकयात्रा तयोश्च स्वेच्छामात्रजीवि तत्वे तस्या न किञ्चिद्र्पमित्युक्तं भवति । सैव च संसार इत्युच्यते । तदुल्लङ्घनं च पुरुषार्थः । तत्प्रयोजनतया प्रवृत्तं चैतत् तत्रं काकदन्तपरी- क्षाप्रायमापद्येतेत्याशङ्कचाह - २४ पच्चाळोअणावमुहे वत्थुसहाबस्स अत्तणो हिअए । सङ्काविसवेषण व संसारभएण मुज्झए लोओ ॥ ८ ॥ पर्यालोचन विमुखे वस्तुस्वभावस्यात्मनो हृदये। शङ्काविषवेगेनेव संसारभयेन मुह्यति लोकः ॥ इति । योऽयं लोको दृश्यं वर्गवैलक्षण्याद् द्रष्टृत्वधर्मा तत एव परमेश्वरैव- दात्मनो विश्वशरीरत्वपञ्चकृत्यकारित्वाद्यैश्वर्ययोगेऽपि पशुत्वाभिमानी प्रमा- तृवर्गः, तस्यायं प्रायशः स्वभावः, यचुक्तितत्त्वान्वेषणे परमेश्वराभिन्नोऽपि स्वयं स्वेच्छामात्रत्वादहम्भाववदिदम्भावमप्य वगाहमानस्य स्वस्य यद्ध- दयमिच्छाज्ञानक्रियात्मकशक्तित्रितयमे (ळाप?ळ) नरूपमन्तस्तत्त्वं, तत्परा- मर्श प्रत्यौदासीन्यमवलम्बत इति । तच्च तस्य स्वचित्तस्वभावादापतितम् । चित्तं हि नाम चैतन्यपथावरोहाञ्चेत्यसञ्चयान्तश्चर्याचातुर्योपात्तसङ्को- चा चिच्छक्तिरित्यवधार्यते । चित्तमयत्वं चास्यावच्छिन्नस्य प्रमातुः 'त- न्मयो मायाप्रमातेति श्रीप्रत्यभिज्ञाहृदयमर्यादया संप्रतिपन्नम् । यतः श्रीशि वसूत्रेषु चैतन्यमात्मेतिवच्चित्तमात्मेत्य प्याणवदशौचित्येन पुनरुपदिष्टम् इति स्वाभाविकमस्येदमौदासीन्यम् । अत एव चायं संसाराज्जननम- रणादिरूपालोकयात्राव्यवहाराद् विभ्यद् 'द्वितीयाद् वै भयं भवती'त्यु - पानपत्रीक्रयया भेदप्रथोपारूढं चाकित्यमुद्वहन् मुह्यति । आत्मनः परमै- १. 'श्यत्वपतिवै', २. 'ण्यादृष्टत्व', ३. 'रपदावि' क. पाठः, त्रय', ५.. 'वसाय्यते' ग. पाट:. ४. 'क्ति-
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति