पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । संवित्तिव्यतिरेकेण नैवान्यदुपलभ्यते । तस्या व्यपोहशङ्कायां भूः स्वात्मनि न भूर्भवेत् ॥ नाप्यभूर्भूधदस्याः पृथक्त्वं च कथं भवेत् । मिथोरूपापहारे च फूत्कर्तुं कस्य कौशलम् || एवं वेद्यस्य पृथ्व्यादेरसंकीर्णे प्रकाशने । सामान्यतो विशेषाच्च संविदेव प्रगल्भते || सापि वेद्यवदन्येन प्रकाश्या चेत् प्रवर्तते । प्रकाशस्तन्मयी न स्याज्जाड्ययोगाविशेषतः ॥ संविदोऽन्यप्रकाश्यत्वे संवित्त्वं लुप्यते न वा । न चेद् व्यर्थं तदन्यत् स्याद् येन सेयं प्रकाश्यते || लुप्यते चेत् किमाकारा सा तेनास्तु प्रकाशिता । तस्यान्यस्य प्रकाशचे कुत इत्यवलोकने || अन्यदन्यदिति व्यक्तमनवस्थितिरापतेत् । अतोऽस्याः स्वप्रकाशत्वं स्वभावादेव सिध्यति ॥ प्रकाशचोक्तया भङ्गया स्वप्रकाशो भवन्नपि । भावमात्रस्वभावत्वे न जाड्यं वेद्यवत् त्यजेत् || स्वप्रकाशोऽप्यसौ काञ्चित् कर्तृतामश्नुते न चेत् । अन्यथा त्वर्थवन्नास्य स्वभावः स्यात् प्रकाशनम् ॥ ततश्च कर्तृता तस्य स्वात्मविश्रान्तिलक्षणा । अनिच्छतापि स्वीकार्या यामहन्तां विदुर्बुधाः || पार्यन्तिकी प्रतिष्ठाभूर्वेद्यवर्गस्य यो विभुः । तस्य स्वयंप्रतिष्ठत्वमहम्भावः प्रकीर्यते || विमर्शश्चायमेव स्यान्मुख्यमैश्वर्यमििशतुः । अतः स्वतन्त्रो भगवान् सर्वंसह इति स्थितम् || तस्य च विमर्शस्य या दशा स्फुरणावस्था, तस्या मुखेन औन्मुख्ययो गेन मलानामाणवकार्मणमाययानामालिः पारम्पर्यात्मा सञ्चयः प्रकाशेन कर्तृभूतेन दह्यते, स्वात्मानुप्रवेशितया स्वीक्रियते । तत्र भिन्नवेद्यप्रथा माया । १. 'रादि स्यात् पृ' ख. पाठः २. 'त्वं' क. पाठः