पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपैता त्वविमर्शशून्यतानिबन्धनं मलमित्यनुसन्धेयम् । तेषु च केषुचिद् वेद्य- भेदप्रथोपाधिको मायीयोऽपि मलः संभवति । अन्येषां त्वपवेद्य पथानुप्रवि- टानामसौ न विद्यत इति विशेषः । एकमला विज्ञानकलाः । तत्रापि तन्मलं, स्वात्मनो विभ्रष्टृत्वविमर्शशून्यत्वात् । विद्येश्वराणामपि मायीयमात्रानुष- न्धादेकमलत्वमेव । मलक्षयोपलक्षिता मन्त्रादयः । तत्रापि तत्क्षयौन्मुख्य- मात्रे मन्त्राः । तदुपक्रमे मन्त्रेश्वरा विद्येश्वरांच, येवामीश्वरोऽभिमन्ता । क्षीयमाणमलत्वे मन्त्रमहेश्वराः, येषां च सदाशिवोऽधिष्ठाता | वासना- मात्रोपरक्तमलतायाम नाश्रितशिवतत्त्वम् । सर्वाकारानुत्पन्नमलोल्लासस्तु भ- गवान् परमशिवभट्टारक एवेति प्रमातृवैचित्र्यम् । आनीतेति । मलत्रयदा- इस्य चायमुपायः, यद्विमर्शमुखेनान्तःप्रापणम् । स्वात्मानुप्रविष्टानां च "यथा हि वहिना लीढमिन्धनं तन्मयं भवेत् । एवं चिता समालीढं चैत्यं चिन्मयतां व्रजेत् इत्यादिनीत्या तद्वद्भावावश्यम्भावात् तेषां मलस्वभावत्वमेव विपर्यस्यतीति यावत् । यदुक्तं श्रीभगवद्गीतासु - 97 "ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! " इति । यथोक्तं मयैव संविदुल्लासे - "वेद्योपरागविभवेन विमोद्यमानं लोहांन्तरव्यतिकरादिव लब्धकाष्र्ण्यम् । ज्वालावलीभिरभितप्य विमर्शवहिः स्वच्छं हिरण्यमिव मे हृदयं विधत्ते ॥" इति । मलशङ्कापरित्याग एव मलक्षयोपाय इति यावत् । तदुक्तं श्री- निशाकुले - “स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये ! । व्योम्नीव नीलं हि मलं मलशङ्कां ततस्त्यजेत् ॥” इति । यथा कि चैत्रमैत्रादेर्जीवकदम्बकस्य स्तम्भकुम्भादेर्भावराशेश्च प्रकाशको गृहदेवतायुपचारद्वारा मङ्गल्यः प्रदीपो वह्निविशेषत्वादशे रुर्ध्व- १. 'घु के' ग. पाठः २. 'धवर्गानु' क., 'यपर्वानु' ख., क. पाठः.