पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इति । ततश्चान्तःस्थः स्वात्मप्रकाश एव बहिः प्रकाश्यप्रपञ्चतया स्फुरती- त्येतत् तावदभ्युपगन्तव्यम् । ततश्च षटुत्रिंशतोऽपि तत्त्वानां प्रकाशस्वभा- वत्वाविशेषात् पृथिव्याप इत्यादिरन्योन्यविशेषतो व्यवहारो न संभवति । व्यवाहियते च विशेषः प्रत्यक्षमेव लोकेन । अन्यथा जलस्थलविभागादे- रर्थक्रियां प्रत्यनियमापत्तेः । स च विशेषः स्वहृदयगतया विमर्शशक्त्यैवो- त्पद्यते । उत्पत्तिश्च तादात्म्ये पर्यवस्यति । यद् यज्जातं तत् तदेव ही- त्युक्तत्वात् । उन्मेषपदेनैतदाह – स्वात्मविमर्शलमस्य पल्लवपुष्पादिप्राय- मेतद् विश्ववैचित्र्यंस्फुरणमिति । एतेन परापरप्रमात्रोः प्रकाशविमर्शानुप्रा- णनत्वं, पर्यन्ततस्तयोरैकात्म्यं च व्याख्यातम् । परमाशव इति उक्तरूपं चास्य स्वातन्त्र्यं विश्वोत्तीर्णत्वमात्रे विश्राम्यति, न पुनर्विश्वमयविश्वोत्ती - र्णत्वलक्षणे परमस्वातन्त्र्यसंपत्साम्राज्ये, तादृक्स्वभावस्य च प्रत्याहारा- नौचित्यात्, प्रत्युत तस्य प्रत्याहतृत्वमेव स्वभाव इति ॥ १२ ॥ EVERE , अथैनं विमर्शमेव द्रढयितुं षट्त्रिंशत्तत्त्वानामन्योन्यतो विशेषं सृष्टि- क्रमानुगुण्येनोपपादयन्नादौ शिवतत्त्वमालोचयति - तह तह दीसन्तार्ण सत्तिसहस्साण एक्कसंघट्टो । णिअहिअउज्जमरूपो होइ सिवो णाम परमसच्छंदो ॥ तथा तथा दृश्यमानानां शक्तिसहस्राणामेकसंघट्टः । निजहृदयोद्यमरूपो भवति शिवो नाम परमस्वच्छन्दः || इति । पृथिव्यादिः शक्तिपर्यन्तो योऽयं विश्वस्फुरणप्रकारः, यश्चे- च्छा ज्ञानं क्रियेति, ज्ञानं स्मृतिरपोहनमिति, सृष्टिः स्थितिः संहारोऽनाख्या भासेति, अन्यथा च तत्तत्त्रोतोन्तरेषु पूज्यमाना योगिन्यो योगिनश्चेति वेद्यविक्षोभोल्लासः । तन्मयीनां शक्तीनां तेन तेन प्रकारेण तत्र तत्रानुभूय- मानानामेकैकव्यक्ति पर्यालोचनेऽप्यानन्त्यं किमुत कार्ल्यानुसन्धाने । तथाहि - इच्छा तावज्जिज्ञासाचिकीर्षादिभेदाद् बहुप्रकारा । ज्ञानं च स्मृत्यनुभवसंशयविपर्ययोत्प्रेक्षादिवैचित्र्यादनन्तप्रकारम् | क्रियापि गमना- सनशयनभोजनभाषणादिभेदादनन्ता । तेषामपि प्रत्येकं भेदप्रभेदविकल्प- M 'यस्य स्फु', २. 'व' ग. पाठ:. ३. 'न प्र' क. पाठः । ४, ‘ल्प' ख. पाठः,