परिमलोपेता । विष्ठातृतया सदाशिव इत्येव नाम्ना कश्चिद् विष्णुरुद्रादिसाधारण्येनोपा- स्यते । स च देवः दृक्शक्तेरौत्वण्यात् क्रियायाश्चात्यन्तापकर्षाभावात् क्रीडाव्यवहाराद्यनेकार्थानुसन्धाने समर्थ: । किंच एतदुपक्रममेव तत्त्व- स्वभावतया विश्वसिसृक्षालक्षणस्वात्मशक्त्यविभिन्नस्य परमेश्वरस्य द्योतन- मित्यासूत्रयितुं देव इत्युक्तम् । यदुक्तमाचार्याभिनवगुप्तनाथपादै:- “श्रीमत्सदाशिवोदारप्रारम्भं वसुधान्तकम् । यदन्तर्भाति तत्त्वानां चक्रं तं संस्तुमः शिवम् ॥” । इति । शिवशक्त्योस्तु तत्त्वव्यपदेशो नात्यन्तं मुख्यया वृत्या, किं तर्हि, सदाशिवायुत्तरतत्त्ववातनिर्वाहकताकारविकल्पसंस्पर्शमात्रादौपचारिकः उपचारेणाप्यनयोस्तत्त्वव्यपदेश सद्भावात् तत्त्वानां पत्रिंशत्त्वं प्रति न किञ्चिद् व्याहतत्वम् | या च तत्र द्वितीया क्रिया, तस्या उल्लेखे स्फुरणाप- रपयये प्राचुर्ये ज्ञानस्य चार्थतः स्तैमित्ये सति ईश्वरो नाम भवति । ईश्वराख्यं तत्त्वमित्याम्नायते । तदधिष्ठाता च कश्चिदीश्वर इत्येव प्रमाता । एतदुक्तं भवति – अहन्तेदन्तालक्षणयोर्ज्ञान क्रिययोराधोद्रेकादनुन्मीलि- तचित्रन्यायेन व्यक्ताव्यक्तमयविश्वप्रमातृतास्वभावं सदाशिवाख्यं तत्त्वम्, एतद्विपर्यासेन क्रियाशक्त्यौज्ज्वल्ये व्यक्ताकार विश्वानुसन्धातृरूपमीश्वर- तत्त्वमिति । प्रथमोन्मेष इति । उन्मेषनिमेषौ नाम परमेश्वरस्य परमस्वा- तन्त्र्यलक्षणं स्पन्दतत्त्वम् । तत्र च यदाहन्तोन्मेषस्तदानीमिदन्ताया नि- मेषः, इदन्तोन्मेषे चाहन्ताया निमेष इत्यनेन “ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ॥” इति श्रीप्रत्यभिज्ञानीत्या तत्तदागमान्तरप्रसिद्धमनयोर्नामधेयान्तरद्वितयम- प्यासूत्र्यते । द्वितीय इत्यनेनेश्वरस्य सदाशिवतत्त्वाद् वैषम्येऽप्यव्यवधानं द्योतयता सर्वत्रापि तत्त्वव्राते तत्तद्वैलक्षण्यप्रवन्धोपन्यासेऽप्यहन्तानुस्यूति- तारतम्यक्रमोऽनुसन्धेय इत्युन्मील्यते । यदुक्तं श्रीप्रत्यभिज्ञायां - “बहिर्भावपरत्वे तु परतः पारमेश्वरम् " १. 'न्ति' ग. पाठ:. २. 'म् इति या' ख. ग. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति