पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इति । एवं मायास्वरूपपरामर्श एव जीवन्मुक्तिरित्युपनिषत् ॥ १७ ॥ अथ मायाविभूत्यात्मकं कलादिपञ्चकमर्थद्वारा परीक्षते - सव्वअरो सम्वण्णो पुण्णो णिच्चो असंकुअंतो अ । विवरीओ व्य महेशो जाहिं ता होति पंच सत्तीओ ॥ सर्वकरः सर्वज्ञः पूर्णो नित्योऽसङ्कुचंश्च । विपरीत इव महेशो याभिस्ता भवन्ति पञ्च शक्तयः ॥ इति । परमेश्वरो हि प्रकृत्या विश्वस्य कर्ता, ज्ञाता च, तत एव स्वातन्त्र्यात् पूर्णः स्वात्मतृप्तश्च प्रार्थनीयाभावात् । स्वव्यतिरिक्तस्यै स्वावच्छेदकस्य कस्यचिद् भावस्यासंभवान्नित्यः प्राक्प्रध्वंसाभावातिलवी | तत एव संकोचलक्षणनियन्त्रणाशून्यश्च । तादृशोऽपि सन्नसौ याभिः शक्तिभिर्निबन्धनीभूताभिर्विपरीत इव किञ्चित्कर्तृत्वादिधर्मयुक्त इवा- वभासते, ताः पञ्च शक्तयो भवन्ति । तदुक्तं श्रीक्रमोदये- “रागो माया कलाविद्या नियतिः काल एव च । पञ्चवृत्त्याश्रयाः सर्वे पाशाश्चेति प्रकीर्तिताः ।।' FACI इति । ताश्च कला अविद्या रागः कालो नियतिरित्युच्यन्ते | कला तस्य कि- ञ्चित्कर्तृत्वहेतुः । अविद्या किञ्चिज्ज्ञत्वकारणम् । रागो विषयेष्वभिषङ्गः । कालो भावानामवभासनानवभासनात्मा क्रमः | नियतिर्ममेदं न ममेदमि- त्यादिनियमहेतुः । एतत्पञ्चकं चागमेषु स्वरूपावारकत्वात् कञ्चुकमि - त्युच्यते । एतदभावे हि पुरुषः परमेश्वर वदतिप्रकटबोवशक्तिः, पाषाणव- दत्यन्तनिमग्नैश्वर्यो वा भवेत् । तत्र च रागो मायाविद्या कला काल इति क्रमेण पुरुषस्योर्ध्वाधः पर्वानुप्रवेशपरिहारात् त्रिशकुवन्मध्यस्थानावस्थानं प्रति पृथिव्यप्तेजोवाय्वाकाशरूपतया तासामुपयोगः । एतेन धारणात्वमे- तासां व्याख्यातम् । यथा श्रीत्रिंशिकाशास्त्रे- "वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ।” इति ॥ १८ ॥ १. 'स्यचाव' क. पाठः, 'स्थाव' ख. पाठ:. २. 'ज्ज्ञातृत्व' क. ख. ३. 'शा' ग. पाठः, पाठः.