परिमलोपेता । इति । स च कदाचित् स्वात्मस्फुरत्तामेव व्यामोहवशाच्छरीरेन्द्रियादि- स्वस्पन्दतयाभिमन्यते । न चासौ वास्तवी दृष्टिः । यदुक्तं श्रीस्वच्छन्दे--- “सुप्रदीप्ते यथा वहौ शिखा दृश्येत नाम्बरे । देहप्राणस्थितोऽप्यात्मा तद्ब्रल्लीयेत तत्पदे ।।” इति । वास्तवी तु दृष्टिरेतत्स्फुरत्तापि परमेश्वर एव पर्यवस्यतीति । यदु- क्तमजडप्रमातृसिद्धौ - “यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते । जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥ इति । किञ्च, परमेष्ठिनमारभ्य कीटपर्यन्तमुलसन् । बहुधोपाविमास्थाय स एकः सन् प्रकाशते ।। शरीराणां प्रभेदेऽपि न शरीरी विभिद्यते । आदर्शानां प्रभेदेऽपि पश्यन्निव मुखं पुमान् ॥ एकमेव यथा तैलं स्थूलेऽपि तिलसचये । तथा विश्वविलासेऽस्मिन्नेको लोकोत्तरः प्रभुः ।। प्रतिरन्धं गवाक्षाणामन्तरिक्षे व्यवस्थिते । यथा न वस्तुतो भेदस्तद्वदात्मनि दृश्यताम् || एकमेव हि सामान्यं सत्ता गोत्वादि कल्प्यते । तद्वदेकोऽयमात्मेति वदन् कस्मान्न मृष्यते || एकेनैवात्मना सिद्धे लोकयात्रानुवर्तने । नानात्वकल्पनं तत्र गौरवाय न किं भवेत् || किञ्च भेदस्य न क्कापि विषयोऽस्तीति दर्शितम् । अतोऽप्यद्वैतपक्षेऽस्मिन्नानात्वं कथमात्मनः ॥ औपाधिकेऽपि तद्भेदे द्वासुपर्णादिवेदवाक् । १. 'पण' ग. पाठः, २. 'दम्' क. ग. पाठः. ३. 'ह्य' ख. ग. पाठ:
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति