पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी सुखदुःखादिभेदानां व्यवस्थाप्युपपद्यते ॥ ऐक्येनैव निमित्तेन तत्तद्वयक्त्यानुवर्तनात् । तस्य व्यापकता सिद्धा यान्यैरप्युपपाद्यते ॥ ततश्च गज कीटादेस्तत्तद्देहप्रमाणतः । आत्मावस्थानमित्येतत् त्यज्यतामर्हतां मतम् || यत्तु तैरुज्यते तस्मिन्नशेषव्यापके सति । शरीरेष्विव चैतन्यं शिलास्वपि भवेदिति ॥ तत्रोत्तरं शिलादावप्यस्ति चैतन्यवासना | नौल्यण्यमस्याः प्राणादिसाहाय्यानुदयादिति || ये पुनरेनं शरीरादिमेवाहुः, ते पुनरत्यन्तमूर्खाः । तथाहि - स च देहमयो न स्याचैतन्यै कप्रसारभूः | नोचेच्छवशरीरेऽपि चेष्टा दृश्येत पूर्ववत् || स्तम्भः कुम्भः सरिद् ग्रावा मृगः पक्षी पुमानिति । तारतम्ये निमित्तं किं भूतचैतन्यवादिनाम् || एवं नेन्द्रियरूपोऽयं सुषुप्त्यादौ शरीरिणाम् । सत्येवेन्द्रियसंसर्गे चैतन्यानुपलम्भनात् || देहेन्द्रियादेरात्मत्वे कर्तृत्वं पर्यवस्यति । प्रपञ्चस्यैव कर्तृत्वं कार्यमन्यत् किमिष्यते || अंशतो यदि कर्तृत्वं कार्यत्वं चेति कथ्यते । कोंऽशः कस्यास्तु कर्तेति व्यवस्था केन कल्प्यते ॥ उक्तरूपविपर्यासशक्षा वा केन वार्यते । अतोऽस्मन्निश्चितस्यैव तत्त्वस्यात्मत्वमिष्यताम् ॥ अथ यः शून्यमाद्दैनं सोऽपि पर्यनुयुज्यते । विश्वान्तर्भावतः किं वा शून्योऽयं स्वयमेव वा ॥ स्वतः शून्यत्वपक्षोऽस्य स्वशास्त्रेऽपि न लिख्यते । वेद्यवर्गस्य शून्यत्वे व्यवहारो विलुप्यते ॥ १. 'भोगानां' क. पाठः २. 'औं' ख. ग. पाठः.