इति । श्रीविज्ञानभैरवे च महार्थनझरी 6 "भुवनाध्यादिरूपेण चिन्तयेत् क्रमशोऽखिलम् | स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः ॥" इति ॥ २७ ॥ एवमुक्तनीया विश्ववैचित्र्यस्य सर्वस्यापि प्रकाशविनशैद्यान्तभी- धमुपपाच तयोरपि भेदः पर्यन्तत औपचारिक इत्याह -- आळवखविसेसम्बिअ गअवुलहाणं दुबेण पडिभास । एक्कस्सि चिअ अस्थे सिवलन्तिविहाअकप्पणं कुणिमो || आलेख्यविशेष इव गजवृषभवोद्वयोः प्रतिभासम् । एकस्मिन्नेवार्थे शिवशक्तिविभागकल्पनां कुर्मः || चित्रकृतो हि स्ववैदग्ध्यप्रकटनाय गजवृषभादीनां भिन्नस्वभावाना- मपि भावानामेकतरसन्निवेशयुक्त्यैकावभासः अन्यतरसन्निवेशयुक्त्यान्यस्फु रणं च यथा भवति, तथा विलिखन्तीत्यविसंवादिनीय मर्यादा । एवं स्थिते यथा गजवृषभोभयाकारसमर्पके चित्रविशेपे गजवृषभयोर्द्वयोरपि पर्या- लोचकप्रमातृजनानुसन्धानधाराधिरोहवैशिष्ट्येन कुम्भमण्डलझुण्डाकुण्डली- भावादियोगात् ककुदकूटप्रोथ पुटौद्धण्यादिक्रमाच प्रतिनियतोऽवभासः प्रकाशनं भवति, तद्वदेकरिमन्नेवार्थे सर्वेषामध्वनां पर्यन्ततः प्राप्ये तत्त्वे शिवः शक्तिरिति प्रकाशो विमर्श इत्येवंविधो यो यो विभागः विचित्रस्वभा- वानतिक्रान्तोऽप्यतिक्रान्त इवावभासमानोंऽशः तस्य यत्कल्पनं स्वतस्त थासमर्थीभवतस्तत्समर्थाचरणेनोन्मीलनं, तत् कुर्मः, जानीमो वदामोऽनु- तिष्ठामश्च । यदाहुः – 'फलभेदारोपितभेदः पदार्थामा शक्तिः' इति । अत्रें च गजवृषभयोरिति द्वन्द्वे गजौ च वृषभौ चेतीतरेतरयोगानुगुणो विग्रहः । भाष्यकृताप्येवमेव विगृहीतं 'धवौ च खदिरौ चे'ति । ततश्च गजशब्दो गजवृषभौ द्वावपि वक्ति | तथा वृषभपदमपि वृषभगजावुभा- १. 'वि' ग. पाठ:. २. 'डि' घ. पाठ:. ३. 'पि' क. पाठ:.. 'ते ग' ग. पाठः ५. 'धोयो वि' क.ग. पाठः, 'न्मीलितं त' ग. पाठः ७. ग' क. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति