परिमलोपेता । वपीत्यापतितम् । तत् तु नान्येषां शोभते। पदार्थानां प्रतिनियतरूपपरित्यागे प्रत्यवायभीरुत्वात् । अस्माकं तु स्वतन्त्राद्वैत संवित्समयसाम्राज्यशालिनां “घट इति पृथिवीति द्रव्यमित्यङ्ग तद्द् भवति ननु विकासो भाव इत्याविधातम् । “यदि विलसति युक्तिस्तत्पुरस्थो चढोऽयं कथय न कथमेको विश्वमूर्तिर्विभाति ।" इति न्यायादेकस्यापि भावस्य स्वव्यतिरिक्ताशेषभावात्मकत्वमभ्युपगत- मित्यलमन्यजनदोषोद्भावनोपक्रमेण । एतेनाभिहितान्वयवादादन्विताभि- धानवादस्यौचित्यमस्तीत्युकं भवति । तत्र हि स्तम्भं पश्येत्यादौ स्तम्भ- शब्दार्थान्वितैव दर्शनक्रिया क्रियापदेनाभिधीयते । एवं पश्यत्यर्थान्वि- तश्च स्तम्भः कर्मकारकेणेत्यनन्तरोपपादितार्थानुगुण्येनान्वये इत्युपपाद्यत इति । एवंच प्राकरणिकयोरपि प्रकाशविमर्शयोः "स्वर्गों भूरिति सागरः सरिदिति स्वामिन् ! सुमो बीरुदि- त्यर्थः शब्द इति स्वरः श्रुतिरिति प्रत्यक् परागित्यपि । शुक्लं रक्तमिति प्रभा तम इति ज्ञानं कियेत्यादि ते युग्मं सर्वमयुग्मनेत्र ! विततिर्विद्याविमृष्टयोर्द्वयोः ॥" इत्यादिनीत्या यद्यपि सर्वप्रपञ्चस्फुरणपर्यवसानस्थलतया तत्तयामळोल्ला- सत्वेनोभयथा व्यवहारावश्यम्भावः, तथापि तत्र “न शिवेन विना शक्तिर्न शन्तिरहितः शिवः” इत्यादिनीत्या प्रकाशो न कदाचिद् विमर्शक्रियतां विमर्शोऽपि न प्रका- शकर्तृकतां व्यभिचरतीत्यनयोवीस्तवं वपुरैक्यस्वभावसौभाग्यभव्यमिति • तात्पर्यार्थः । यदुक्तं मयैव श्रीकोमळवल्लीस्तवे - “त्वं यथा शिवमयी तथा शिवस्त्वन्मयो हि शिवयोरभेदिनोः । तत्त्वमेकम बहिर्मुखास्पदं यत्र भिन्न इव विश्वविक्रिया ॥ " इति ॥ २८ ॥ 8. 'तः' ग. पाठः २. 'य उप' ख. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति