परिमलोपेता | मपक्षपातेन प्रसरति । यदि चं तस्य तत्र पक्षपातेन प्रवृत्तिः, तत् खपुष्प- मित्यपि न स्फुरेत् । अत एवोक्तमाचार्याभिनवगुप्तपादै: 'सा स्फुरत्ता महासत्ते त्यत्र महासत्तेत्येतत्पदव्याख्यानावसरे - 'साहि खपुष्पादिकमपि व्याप्नोति' इति । यथा श्रीशिवदृष्टौं - "शशशृङ्गादिकेनापि स्याद् विभक्त्या समन्वयः" इति । पदसङ्गतौ च 'तस्मात् तत्रापि विभक्तियोगेन कारकत्वे सति सत्तैव शिवताख्ये'ति । एतेन स्तम्भकुम्भादीनां भावानां प्रकाश एव सा- मान्यात्मनानुप्राणनः प्रवर्तते, न पुनः सामान्यं नाम पदार्थान्तरमित्युक्तं भवति । तत्र च विकल्परूपा व्यक्तयः | अविकल्पात्मा महाप्रकाशः सा- मान्यम् । ततश्चानुवृत्तिप्रत्ययनिमित्तं सामान्यमित्याचक्षाणा वैशेषिकादयः प्रत्याख्याताः । प्रकाशस्याहेतुकत्वात् । प्रत्युत विश्वविलासं प्रत्यस्यैव हेतु- त्वात् सर्वसामान्यमिति । एतादृशस्य सामान्यस्य हि समवायविशेषाद्यवि शेषेण विश्वमेव विषयो न पुनद्रव्यादिवच्छिन्नः पदार्थ इत्यर्थः । अथ च प्रष्टव्योऽयमन्यपुष्पात् खपुष्पस्य विशेषः | तुच्छत्वमिति चेत् । किं तत् तुच्छत्वं नाम | न तावच्छून्यत्वम् । गगर्भंस्य पुष्पस्य च पृथक् पृथक् सद्भा- वात् । अनयोरन्योन्यं कार्यकारणभावसंबन्धाभावात् तद्वारा विशिष्टस्या- प्यसत्त्वमिति चेत् । न । अन्योन्यत्वं नामानयोरेकैकपर्यालोचनायां न संभवति । संभवे चोक्तस्यैव दोषस्यानुषङ्गः । यदि च तन्मेलनांश इत्यु च्यते, तह्येसंबन्धादित्यस्य व्याघातः स्यात् । मेलर्नस्याभ्युपगतत्वात् । मेलकश्चासौ प्रतीतो वा स्यान्न वा । नान्त्येंः । व्यवहारानुपपत्तेः । ततश्च प्रतीतिपक्ष एवावशिष्यते । सा च प्रतीतिरनयोर्मेलनमुपस्थापयन्ती तुच्छ. त्वमेव तत् तुच्छीकर्तुमुद्यच्छतीति चम्पकपाटलादिप्रसूनप्रक्रियया व्योम- कुसुमस्यापि व्यवहारकक्ष्यावैषम्याभावाद् यदसत् तत्र प्रतिभाप्ररोहासंभ- वाद् मूकीभाव एव शरणं प्रतिवादिनो जनस्य । अत एव हि योगिनः केचिदाकाशादेरपि प्रसूनान्यानयन्तो दृश्यन्ते । न च तत्र खोपादानंद्र- - 2. 'न्च तत्र', २. 'च न स्यात् त', ३. 'त्वे च स' क. पाठः ४. 'त: प्र' ख. पाठः, ५ ‘र्थानामि' क. पाठ: ६. 'नपु' ग. पाठः ७. 'कां' ख, 'कतांश' ग. पाठः. ८. 'क' ख. ग. पाठ:. ९. 'वः' ख. पाठ:. ११. 'नशून्यद्र' ग. पाठः. १०. 'यत् सत्यमत्र' क. पाठ:. M
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति