पृष्ठम्:महार्थमञ्जरी.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
महार्थमञ्जरी

दश, शाक्तसिद्धा अष्टौ, शांभवसिद्धाश्चत्वारः इति मङ्गया चतुष्षष्टिर्वृन्दचक्रम् । अयं भावः परमेश्वरो हि प्रकाशः प्रकृत्या प्रसन्नगम्भीरमनुत्त रतरङ्गमम्बुराशिमनुकुर्वन् अविकल्पात्मैव अन्तः स्वातन्त्र्यमयीमानन्दशक्तिमनुभवति, तस्य च ता दृक्स्वभावानुप्रविष्टाः शक्तयः शाम्भव्यः, स एव यदा किंचित्कल्लोलनक्रियौन्मुख्यम् अवलम्बते तदा शाक्तोल्लासः, तस्यैव किंचिल्लोलीभावे मे लापपरिस्फुरणम्, उपर्युद्रिक्तकल्लोलकल्पनायां


इत्यादि द्वादशमात्रायोजनरूपः ५ 'क्क क्र क' इत्येवंरूपः ६ तथा स्वराणां व्यञ्जनानां चास्वराकारेणान्तर्व्यापकरूपमेलापः ७ ' यवर्णोऽयम सवर्णे इत्यनेन संपन्नानां चतुर्णा 'सपरस्वरायाः संप्रसारणम्' इत्या दिना इ उ ऌ रूपेण पुनः परिणामः ८ आद्यकलाचतुषकस्य निरावर णीभावः ९ द्वादशमरीचीनां युगपत् त्रयोदशे प्रवेशलक्षणः संहारः १० एषामेव निजविषयान् प्रति मेलापः ११ इति त्रितयात्मकः संविन्मेलापः। शक्तेरनलपवनवलनया मध्यमार्गोदिताया मायाख्यपाशवब्रह्मविष्णुरुद्रे श्वरसदाशिव-इन्धिकादीपिकाबैन्दवनादाख्यशक्तिरूपग्रन्थिद्वादशकेन सह स्पर्शभेदसंख्यातेन धाममेलापो द्वादशः १२ । एष च त्रिविधसंविद्रूपाष्ट विधवर्णरूपैकविधधामसंख्यातो द्वादशविध उन्मनारूपसमवायात्मा मे लापः १३ यादि-हान्ता अष्टौ शाक्तसिद्धाः । आद्यक्षरचतुष्कलारूपाः क्षकारचतुष्कलारूपा अष्टौ शांभवसिद्धाः ।