एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
महार्थमञ्जरी
चलित्वा यास्यते कुत्र सर्व शिवमयं यतः ।
इति-स्थित्या कस्य कस्मात्पृथक्त्वम् , तद्धेतुकः क्रमश्च -- इति युक्तिपर्यालोचनायां मूकीभाव एवोत्तरं प्रत्यर्थिनो जनस्य, अस्य कालाख्येन कलङ्केन संपर्कः केनचिदपि प्रकारेण न संभ वति-कालस्य क्रमतयैव पर्यवसानात्, एवं नित्यनिरावरणस्य' इत्यादि । एतदुक्तं भवति
'चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि
चिदैकात्म्यदाय जीवन्मुक्तिः।' (सू० १६)
इति श्रीप्रत्यभिज्ञाहृदयमर्यादया भोगमोक्षसा कारलक्षणो जीवन्मोक्षः
'सर्वो ममायं विभवः
इति स्ववैश्वात्म्यानुसंधानसंधुक्षितेश्वर्याणां प्रमा
तॄणां स्वभाव एव, न खाहार्यः कश्चिदतिशयः
ननु जीवन्मुक्तिर्नामात्मनो जननमरणाद्यनु
स्यूतस्य सर्वावस्थानिर्विशेषस्वानन्दोत्सवानुभूति