पृष्ठम्:महार्थमञ्जरी.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
मार्थमञ्जरी

त्वमपरिहार्यम्, किमुत तदनुभवः-इति द्योतनार्थ मेवमनादरेणोपन्यासः । किं च स्वस्यानन्दरूपा वश्यंभावे बन्धमोक्षादिविकल्पविक्षोभोऽत्र न कश्चिदुपपद्यते-आनन्दस्य चित्तसत्वसामरस्या नुभूत्यात्मकत्वात् । यदाहुः

यत्र चित्सवयोाप्तिस्तत्रानन्दो विगजते ।
यत्रानन्दो अवेद्भाने तत्र चित्सवयोः स्थितिः ॥'

इति । एनमेव ह्यानन्दमुद्दीपयितुमाम्नायेषु प्रथ मद्वितीयादिव्यस्वीकारनिर्बन्धोऽनुबंध्यत इत्यु पनिषत् ॥ ५४॥

 अथैवमुपपादितमात्मस्फुरत्तापरामर्श प्रत्युपा यानाणवादीनुपदिदिक्षुः प्रथमं त्रीनपि एकयैव गाथयोद्घाटयति

अइ निअहिअउल्लासं
 णिण्णेतुं णिचणिकूलंइच्छा।
मलतुइपुटीअंवा
 अर्थगत्ताण सोमसुजाणताइ॥५५॥