एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
श्रीमन्महेश्वरानन्दविरचिता
स एव वा आधपुरुषोऽन्नरसमयः
इत्युपनिषदि समाम्नातमस्ति ॥ ५७ ॥
अथ शांभवमुपदिशति
हन्त मुहं पडिबिम्बतह
पडिबिम्बतं तह तंपि अदाओ।
अदाओ उण जसिं
पडिबिम्बतइ सोति णाअवो॥५८॥
हन्त मुखं प्रतिविम्वति
प्रतिबिम्बतु तथा तदपि दर्पणः।
दर्पणः पुनर्यस्मिन्
प्रतिबिम्बति सोऽपि ज्ञातव्यः ॥५८ ॥
४० हन्त मुखमिति, हन्तेति खेदे सुखस्य मालिन्यप्रदर्शनार्थ, यस्मात् तन्मुखं नयनजलभूताकाशादौ स्वयं मलिनत्वात् तेषु स्वच्छेषु प्रति- बिम्बति, तथा मालिन्यादेव तदपि सर्व मुखनयनजलभूताकाशादि दर्पणः प्रतिबिम्बयतु - स्वाभिमुख्येनोलसन् स्वच्छतयैव न तु चेतनतया 17