पृष्ठम्:महार्थमञ्जरी.pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
महार्थमारी

विक्लवात्मनः परिमितस्य योगिनश्चाकित्यप्रकारः, अपरिमितस्य तु पूर्णाहन्तात्मकानवच्छिनान न्दपरिस्पन्दास्वादसंप्रतीतात्मनः स्वात्मपक्षनि क्षिप्ताशेषबाह्यप्रपञ्चत्वादिदन्तानुभूत्यवश्यंभावः, ततश्च विकल्पविक्षोभानुभूतिवैचित्र्योत्तरमिदन्ता वरोहणमप्यनवच्छिन्नाहंभावभास्वरे महति प्रमा तृपर्वण्येव पर्यवस्यति ॥ ६१ ॥

 ननु इदन्ताया मायीयावश्यंभावत्वादुद्भावितो ऽयम् अहन्तेदन्तयोरविशेषः कथं संगच्छताम् ? इत्याशङ्क्यह

जंही गृहइ जोई
 कलनपणालीहि विसअसौख्याई ।
णिअहिअयोवमणजरीहि
 ताहि फुरणमयं क्वणइ तेलोक्क ॥६२