पृष्ठम्:महार्थमञ्जरी.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
महार्थमञ्जरी

ग्राह्यग्रहणवेलायामिन्द्रियादिप्रणालिकया विश्वप्र तिष्ठाभूमिः 'अकृत्रिमः प्रमाता कश्चित् विम्रष्टा इति पारम्पर्यात आपतितम् , तद्द्वारेणैव पारमा र्थिकप्रमातृलाभ इह उपदिश्यते ॥ २ ॥

 ननु उक्तयुक्त्या विम्रष्टव्यः कश्चित् कर्तृत्व विशेषः कुलालादिवत् न कुत्रचित् अपरोक्ष उप लभ्यते, अनुमेयत्वादौ तु तत्तत्प्रमाणाधीना वस्तु स्थितिरितिस्थित्या तादृक् किञ्चित् प्रमाणं वक्तव्यम्, तदनुक्तौ तु तस्य असत्कल्पत्वापत्तिः इत्याशंक्याह

अंणा खु बीसमूलं
 तत्थ प्रमाणं ण कोबि अथेई।
कःस व होइ पिबासा
 गंगामुत्तै णिमग्नस्स ॥३॥


आत्मा खलु विश्वमूलं
 तत्र प्रमाणं न कोऽपि अर्थयते।