पृष्ठम्:महार्थमञ्जरी.pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
श्रीमन्महेश्वरानन्दविरचिता

कस्य वा भवति पिपासा
 गंगास्रोतसि निमग्नस्य ॥३॥

 इह आत्मैव प्रकाशस्वभावत्वात् विश्वव्यवहारे निबन्धनं 'मम अवभासते, मया अवलोक्यते' इति प्रमातृप्रकाशोपश्लेषेणैव स्तम्भकुम्भादीनां प्रकाशमानत्वात् , तद्व्यतिरेके च तेषां स्तम्भ एव कुम्भः, कुम्भ एव स्तम्भ इति तयोरन्योन्यं स्वलक्षणापहारोपक्रमेण कस्यचित् विनियन्तृत्वम् इति स्तम्भस्वरूपेण किं भवतु, अस्तम्भो वा इति सन्देहो वा, तस्यापि असंभवो वा इति सर्वथा तूष्णींभाव एव स्वभावः स्यात्, यदि च स्तम्भादिरूपतैव तेषां प्रकाशमानत्वं न पुनः प्रमातृ- प्रकाशानुग्रहात्मा कश्चित् अतिशयः, तर्हि सर्वेषामपि तथा प्रकाशेरन् न वा कस्यचिदपि इति प्रमातॄणां व्यवहारोच्छेदप्रसंगः । किं च स्तम्भकुम्भाद्यात्मनो विश्वस्य स्वात्मनैव प्रकाशमयता- ङ्गीकारे सर्वस्यापि प्रमातृवर्गस्य सार्वज्ञ्यम् अत्य-