पृष्ठम्:महार्थमञ्जरी.pdf/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
श्रीमन्महेश्वरानन्दविरचिता

उक्तम् । आगमस्तु यदि आप्तमात्रवाक्यत्वात् प्रामाण्यमर्हति, तर्हि तस्याप्तिः कीदृक् ? इति चि न्तायाम् - अन्यस्मात् आप्तात्, तस्यापि अन्य स्मात् इति मूलक्षतिकारिण्यनवस्था, इति अप्रा माण्यमेव माणिक्यपरीक्षावत्, त्रिचतुरकक्ष्यावि श्रान्तौ तु सैव संकोचाय कल्पते, यदि पुनर् 'अनवच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थ इति आचार्याभिनवगुप्तोक्तस्थित्या परप्रमातृवि मर्शशक्तिमयतया अयम् अङ्गीक्रियते, तदानीम् असौ तस्य स्वभावभूते प्रकाशे दीपोल्लेख इव तमः स्थगितस्तम्भकुम्भादौ अभिव्यञ्जकतया कंचित् चमत्कारम् उपजनयति, तत्र यथा दीपालोके ध्वान्तगर्भवर्तिनां स्तम्भादीनाम् आरोहपरिणा हादिस्वभाव उन्मील्यते, तद्वत् अस्यापि स्वा त्मनो यन्माहात्म्यम् - अनवच्छिन्नप्रकाशस्वभा वत्वं स्वव्यतिरिक्ताशेषभुवनाक्षाद्यनुप्राणनक्षमत्वं


पं. ७ ख० ग० पु० विमर्श एवागम इति पाठः ।