पृष्ठम्:महार्थमञ्जरी.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
श्रीमन्महेश्वरानन्दविरचिता

पडिहाइ लोइआण्णं
 अह्यन्तफुडोबि अफुडो अंपा॥९॥

माणिक्यप्रवेक इव
 निचोलितो निजमयूखलेखया।
प्रतिभाति लौकिकाना-
 मत्यन्तस्फुटोपि अस्फुट आत्मा ॥९

 आत्मरूपो हि परमेश्वरः प्रकाशोत्कर्षत्वात् अशेषभुवनव्यापनक्षमत्वाच्च विश्वविकल्पकल्पना मयीमर्चिःप्ररोहपरम्पराम् उपर्युपरि उन्मीलयन्

'तत्सृष्ट्वा तदेव अनुप्राविशत्'

इति उपनिषत्प्रक्रियया तयैव च निचोलितः कञ्चु कितप्रायो नित्यम् आस्ते । तत्र लौकिकानां प्रमेयतयालोक्यमाने विश्वस्मिन् व्यवहर्तॄणां प्रमा- तॄणाम्