पृष्ठम्:महार्थमञ्जरी.pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
महर्थमञरी

 अथैनं विमर्शमेव द्रढयितुं षट्त्रिंशत्तत्त्वानाम् अन्योन्यतो विशेषसृष्टिक्रमानुक्रमानुगुण्येन उप पादयन् आदौ शिवतत्त्वम् आलोचयति

तह तह दीसंवाणं
 संत्ति सहसाण एकसंघट्टो।
णिअ हिअय-दुमरुवो
 हुइ शिवो णाम परमसंत्स्पन्दो ॥१३॥


तथा तथा दृश्यमानानां
 शक्तिसहस्राणामेकसंघट्टः।
निजहृदयोद्यमरूपो
 भवति शिवो नाम परमस्वच्छन्दः ॥१३॥


१३ अनुक्रमानुगुण्येनेत्ति, आवरणक्रमानुकारेण विशेषस्फुटीकारः, इति भावः।

१४ संघट्टः-तत्तदनुत्तराद्यसंख्यशक्तीनां संघातरूपः ।