पृष्ठम्:महार्थमञ्जरी.pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
महार्थमञ्जरी

अविहाआ पंथाय
 तत्तपआडिडत्ति संभवी सत्ती
॥ २० ॥

ज्ञानक्रियामायानां
 गुणानां सत्त्वरजस्तमःस्वभावानाम्।
अविभागावस्थायां
 तत्त्वं प्रकृतिरिति शांभवी शक्तिः॥२०॥


 ज्ञानं नाम प्रकाशः, क्रिया विमर्शः, माया तु अहमिदम् इदमहम् इति किंचिद्भेदप्ररोहेऽपि सदाशिवेश्वरावस्थापदाहन्तापर्यवसायिनी शक्तिः, तासां परमेश्वरशक्तिभूतानामपि व्यामोह्यमानप शुजनापेक्षया गुणत्वं, याभिः सुखदुःखमोहात्म कोऽयं लोकव्यवहारः, तन्मयीनां च तासां या विभागशून्या तुलाधारणवत् अत्यन्तावैषम्यशा