पृष्ठम्:महार्थमञ्जरी.pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
महार्थमञ्जरी

'नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे ।'

इति स्थित्या समुद्रतया अध्यवसीयते । तत्र कालविशेषावच्छेदात् महातरङ्गवत् आचरन्ति त्रीणि करणानि प्रमातृरूपस्य कर्तुः साधकत मानि इन्द्रियाणि विद्यन्ते, तानि च यथा इद न्तानुप्राणितां विषयवैचित्र्यसम्पदं हृदयान्तराक र्षयन्ति हठात् अनुप्रवेशयन्ति, तद्वत् अहन्ता सारां स्वहृदयचिच्छक्तिमपि अत्र वेद्यभूमौ अर्प यन्ति, अनैसर्गिकत्वेऽपि नैसर्गिकतया अनुभा वयन्ति । तानि च अहंकारो बुद्धिर्मन इति व्यव ह्रिपन्ते, तत्र मम इंदम्, न ममेदम् इति आत्म नोऽभिमानसाधनम् अहंकारः, अध्यवसायनि मित्तं बुद्धिः, संकल्पविकल्पहेतुः मनः । अय मर्थः- अहंकारादीनि आत्मनोऽन्तःकरणानि न केवलं बहिरवलोकितान् विषयान् अनुभावयन्ति किं तर्हि स्वयम् आक्रान्तया प्रमाचिच्छक्त्या अन्तर्वर्तिनमखिलमपि वेद्यवर्गं विषयीभावयोग्य तानुप्रवेशार्थे प्रकाशस्वभावतापादनात्मकपावनी-