पृष्ठम्:महार्थमञ्जरी.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
महार्थमञ्जरी

विमरिससंरम्भमयी
उजिंमल सभुणो महता सत्ती॥२६॥


सर्वस्य भुवनविभ्रम
 यन्त्रोल्लासस्य तन्तुवल्लीव ।


१ भुवनविभ्रम एव यन्त्रोल्लासस्तस्य तन्तुवल्लीव, यथैव तन्तुप्रोताः श्रीयन्नादयो यन्त्राः कण्ठभुजादिस्थाने निबध्यन्ते तथैव यत्प्रोतो भुवन विभ्रमः परमशिवनिबद्धो भवति । यदुक्तं श्रीभगवद्गीतासु

मत्तः परतरं नान्यरिकचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७-७ ॥
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥

इति । विमर्शसंरम्भः - अन्तःस्फुरत्तानुत्तरस्वातन्त्र्यात्मिका शुद्धविधा । तथा चोक्तम्

'मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ।
अष्टत्रिंशरकलायुक्तपञ्चाशद्वर्णविग्रहा ।
विद्या कुण्डलिनीरूपा मण्डलन्नयभेदिनी ।
तडित्कोटिनिभा प्रख्या विसतन्तुनिभाकृतिः ।
व्योमेन्दुमण्डलासक्ता सुधास्रोतःस्वरूपिणी।
यया व्याप्तं जगत्कृत्स्नं पराद्वयस्वरूपकम् ।
एषा स्वास्मेति बुद्धिस्तु रहस्यार्थो महेश्वर ।