पृष्ठम्:महार्थमञ्जरी.pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
श्रीमन्महेश्वरानन्दविरचिता

क्रियते- इति व्युत्पत्त्या पानं सैव अङ्गत्वेन उप युज्यते, स्वचित्तात्मकचषकोपग्रहणयुक्त्या कया चित् अर्पणीयानि, चित्तस्य चषकता च तत्र बहुप्रवाहं सपर्यतां वेद्यवस्तूनां स्वान्तर्भैरवस्य एकहेलया ग्रहणसौकर्योपायत्वात् । विश्ववर्तिनो हि भावा बहिर्भिन्नप्रकारस्फुरणतत्तदिन्द्रियपरि स्पन्दोपगृह्यमाणस्वभावाः क्षणं विश्रम्य पश्चात् तत्तदिन्द्रियप्रणालिकया भैरवात्मनि अनुप्रवि शन्ति - इति सुभगा इयं सरणिः । विमर्शोऽत्र परमेश्वरं प्रति स्वात्मतया विमर्शः प्रत्यभिज्ञा नात्मा, स एव पुष्पं - पोषणकर्तृकत्वात् ॥३५॥


 अथ अर्चारहस्ये एवमियता प्रपञ्चेन पूज्य देवताचक्रस्वरूपं प्रतिपाद्य पूजामुपपादयितुमाह

अबलणिवालन अक
 वरिवासा सा अ दुलहा लोये।
सुलहा अ वीसलणो
 आसवतम्बुलगन्धपुंफाल ॥३६॥