पृष्ठम्:महार्थमञ्जरी.pdf/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
श्रीमन्महेश्वरानन्दविरचिता

 पीठं हि नाम स्वशरीरभट्टारकम् इत्युक्तम् , यदुक्तं महानयप्रकाशे

'शिवशक्त्युभयोन्मेषसामरस्योद्भवं महत् ।
वीर्यं तस्माद्देह एव महापीठं समुद्गतम् ॥'

इति । तत्र च कलाः शक्तयो नव, ताश्च पर्या लोच्यमानाः-प्रमात्रंशमयः कश्चित् आद्यस्प न्दः, तदनु तस्यैव उपरि प्रसरणौन्मुख्यरूपा शक्तिः काचित्, अथ तस्य प्रमाणस्फुरणरूपः कश्चिदिन्द्रियपरिस्पन्दः, ततश्च वस्तुव्यवस्थाप नामिका तत्र स्फुरत्ता, पश्चात् प्रमेयोल्लासः, प्रमेयवर्गश्च सूक्ष्मेक्षिकया परीक्ष्यमाणो भूतप ञ्चकमेव अन्तर्भवति, भूतानि च अत्र-आकाशो वायुस्तेज आपो भूमिरिति क्रमात् उत्पद्यन्ते । तत्र च प्रारम्भ एव स्वात्मनश्चिद्रूपतापरामर्शः, तदनु तस्य स्थैर्योपपादनम्, तदनु तद्योगरूपस्य स्पन्दानुवृत्तिः, तदनु तस्यैव उज्वलीकरण, ततश्च स्वविश्रान्तिलक्षणमाप्यायकत्वं च- इति क्रम


पं० १५ ख० पु० तदनु उद्योगेति, ग. पु० तद्योग्येति पाठः ।