तच्च अन्तर्बहिरहन्तेदन्ताद्वितयस्फुरणानुगुण्यात् । तत्र यदा अहन्तायाः समुच्छ्रायः तदा इदन्ताया न्यग्भावरूपो मोहो भवति, यदा पुनरिदन्तायाः समुच्छायः तदा अहन्ताया उक्तरूपो मोह, इति द्वयमपि एकार्थमेव, रूपं च प्रमातृवह्निरूपस्य परमप्रकाशस्य परभैरवसंविदैक्यपर्यन्तोत्कर्षः पा षाणादिजडसंवित्पर्यन्तो न्यूनीभावश्च इति महती स्वातन्त्र्यशक्तिर्मूर्तिशब्देन उच्यते । तत्र
प्रविश्यो नादं लयदहनभस्मीकृतकुल:
प्रसादात्ते जन्तुः शिवमकुलमम्ब प्रविशति ॥'
इति, वामधामेति मूर्तिचक्रेत्यनेन 'यस्योन्मेषनिमेषाभ्याम् ' इति सूत्रे यस्येति उन्मेषनिमेषेति पदद्वयं निर्वाहितम्, निकार्थाभिप्रायेण तु एतत् नरशिवात्मक रूपद्वयं, शत्यात्मकं तु रूपं प्रकृतेरेवापरिणामित्वे चित्ता स्मकं तृतीयं शक्तिरूपं भवतीति । तदुक्तम्
'परशिवरविफरनिकरे प्रतिफलति विमर्शदर्पणे विशदे ।
प्रतिरुचि रूचिरे कुड्ये चित्तमये निविशते महाविन्दुः ॥'
इति । अनेन च शक्तरेव जगत्प्रादुर्भावात् जगत इत्येतन्निर्वाहितमिति । तदुक्तमभिनवगुप्तपादैः
'भैरवरूपस्य विश्वस्य नररूपापरभट्टारिकास्वभावः शाक्तस्तत्सहित- स्थात्मनः शिवात्मकं तृतीयं ब्रह्म हृदयम्
इत्यनुत्तरविचारे । शाक्तमेव च रूपं वृन्दचक्ररूपम् ।