पृष्ठम्:महार्थमञ्जरी.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
महार्थमञ्जरी

व्युत्पत्त्या प्रकाशः प्रमाणम् इत्यर्थों भवति । तत्र च शक्तयो द्वादश, ताश्च तत्त्वदृष्ट्या यथाक्रमं प्राणप्रधानानि वाक्पाणिपादपायूपस्थरूपाणि 'कर्मेन्द्रियाणि' मनःश्रेष्ठानि श्रोत्रत्वक्चक्षुरस नाघ्राणात्मकानि ज्ञानेन्द्रियाणि'। वामनेत्रमान न्दचक्रम् -आनन्दो नाम स्वात्मपरमेश्वर इद न्तया स्फुरन् समन्तात् समृद्धिस्वभावः प्रमेयव र्गोल्लासः, स च सोमांशः, तत्र च कलाः षोडश वस्तुवृत्त्या,ताः षोडशविकारस्वभावाः, विकाराश्च कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकम् आकाशादि भूतपञ्चकम् मनश्च ॥ ४२ ॥

 एवं स्थूलदेहे पीठतया उपास्यतामुपपाद्य सूक्ष्ममप्येवं विम्रष्टव्यमित्येवमुन्मीलयितुं वृन्द चक्रं पर्यालोचयति

आपडिअं पञ्चसन्धे
वोसोटीतिंदं किमि।



३१ प्राणप्रधानानीति प्राणमनःप्राधान्यमत्र सदाशिवेश्वरवदेव पूर्वो

क्तप्रकारेण बोध्यमिति।